________________
ध्यायः १.] संस्कृतटीका-भाषाटीकासमेतः ।।
षण्मनूनां तु सम्पिण्ड्य काल तत्सन्धिभिः सह ॥ कल्पादिसन्धिना सार्दै वैवस्वतमनोस्तथा ॥ ४५ ॥ युगानां विघनं यातं तथा कृतयुगं त्विदम् ॥ प्रोड्य सृष्टेस्ततः कालं पूर्वोक्तं दिव्यसंख्यया ॥१६॥ सूर्यान्दसंख्यया ज्ञेया कृतस्यान्ते गता अमी ॥
खचतुष्कयमाद्यनिशररन्ध्रनिशाकराः ॥ १७॥ षमननां कालं सौरवर्षात्मकं तत्सन्धिभिः षण्मनूनां कृतयुगप्रमाणैः षभिः संधिभिः • सह सार्द्ध कल्पादिसन्धिना कृतप्रमाणः कल्पादावित्यनेन कल्पप्रारम्भसम्बद्धकृतयुगमितसन्धिना सार्दै सार्थ सर्मिपण्डयैककृित्य । तुकारादायुषोऽर्धमितं तस्येत्यस्य निरासः । वैवस्वतमनोर्वर्तमानसप्तमवैवस्वताख्यस्य मनोयुगानां त्रिधनं यातं युगसप्तविंशतिंगतां तथैकीकृत्येदमष्टाविंशतियुगान्तर्गतं तुकारात्साम्प्रतं स्थितं कृतयुगं तथा गतत्वेनैकीकृत्य ततः सिद्धाकात्सृष्टेः कालं सृष्टिकरणार्थ यः कालो वर्षात्मकस्तं दिव्यसंख्यया दिव्यमानेन पूर्वोक्तं कृताद्रिवेदा दिव्याब्दाः शतघ्ना इत्यनेनोक्तम् । सूर्याब्दसंख्यया • सौरवर्षमानेन षष्टयधिकशतत्रयगुणितं कृत्वेति तात्पर्यार्थः । एतेन प्रागुक्तकीकरणं सौर वर्षप्रमाणेन दिव्यवर्षप्रमाणेनेति व्यक्तीकृतम् । प्रोज्झ्य न्यूनीकृत्य । चा समुच्चयार्थोऽनुसन्धेयः । अमी अवशिष्टान्दाः खाभ्रखाभ्रद्विसप्तत्रिशरातिधृतयः कृतयुगचरणस्यावसाने गता अतीता ज्ञातव्याः । ननु कल्पादस्माच मनव इत्यादिपूर्वोक्तसम्पिण्डितकालोक्त्येदं षण्मनूनामित्यादि पुनरुक्तपाभाति । नच पूर्व ब्रह्मगतवयाप्रमाणज्ञानार्थमिदानी च ग्रहसाधनार्थम् । अन्यथा गतब्रह्मवयाप्रमाणाद्रहसाथनापत्तोरति वाच्यम् । ब्रह्मगतवयाप्रमाणादेव ग्रहसाधनस्य युक्तत्वादिष्टापत्तेः। अन्यथा ग्रहचक्रादेब्रह्मोत्पत्तितस्तद वसानपर्यंतं सत्त्वाब्रह्मदिनाधिककाले गताब्दज्ञानाभावाद्ग्रहसाधनानुपपत्तिरिति चेन्न । इत्थं युगसहस्रेण भूतसंहारकारकः कल्प इत्यनेन ब्रह्मदिनान्ते ग्रहचक्रादिनाशोक्तेस्तदिनादौ ग्रहचक्रोत्पत्तेश्च ब्रह्मदिवस एव तदादिगताब्दा ग्रहचारोपजीव्या न ब्रह्मगतायुः प्रमाणाब्दाः ग्रहासत्त्वे ग्रहसाधनापत्तेः । अतः पुनर्गतान्दाग्रहचारोपजीव्या ब्रह्मदिवसे साधिताः । परन्तु ब्रह्मदिनादितो ग्रहचारप्रवृत्तिकालपर्यंत यः सृष्टिविलम्बितकालस्तदूना ब्रह्मदिनादिगताब्दाः सृष्टिगताब्दा ग्रहसाधनोपजीव्या इति तथोक्तम् । अन्यथा सृष्टयन्तर्गतकाले ग्रहचारासत्त्वे तत्साधनापत्तेः सृष्टिकालकथनानुपपत्तेश्चेति दिक् । यथा दिव्याब्दस्य सौरवर्षाणि ३६० । द्वादशसहस्रगुणितानि महायुगम् ४३२०००० इदमेकसप्ततिगुणं मानुनमम् ३०६७२०००० इदं षड्गुणितं षण्मनुमानम् १८४०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com