SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ (२०) सूर्यसिद्धान्तः [प्रथमोऽखखरन्ध्राणि जैवस्य शोकस्यार्थगुणेषवः ।। गोऽग्नयः शानिमन्दस्य पातानामथ वामतः ॥१२॥ पागतः कल्प इत्यनयोः शनिमन्दान्तं प्रत्येकं सम्बन्धः । पूर्वगतः सूर्यमन्दोचस्य कल्पे सप्ताष्टराममिताः शनिपातस्य भगणा इति वक्ष्यमाणस्य भगणा इति पदमत्र प्रत्येकमन्वेति । कोजस्य कुजसम्बन्धिनः सूर्यमन्दस्येत्यस्यैकदेशो मन्दस्येति मन्दोचस्येत्यर्थकमत्रान्वेति । तथा च भौममन्दोवस्य चतुरधिकं शतद्वयम् । बौधस्य बुधमन्दोचस्याष्टषत्रिमिताः । जैवस्य गुरुसम्बन्धिमः । अत्र शनिमन्दस्येति वक्ष्यमाणस्यैकदेशो मन्दस्येति मन्दोचस्येत्यर्थकमन्वेत्येकवृत्तस्थत्वात् । यद्वाद्यन्तयोर्मन्दस्येत्युक्त्यैव मध्यस्थानामन्वयः सूपपन्न इति । तथा च गुरुमन्दोच्चस्य नवशतं शौकस्य शुक्रमन्दोबस्य पञ्चत्रिंशदधिकपञ्चशतं शनिमन्दोचस्यैकोनचत्वारिंशत् । अथानन्तरं पातानां मौमादिपातानां वामतः पश्चिमगत्या भगणा उच्यन्त इति शेषः ॥ ४१॥४२॥ भा० टी०-एक कल्पमें मंदसूर्यके ३८७, मंगलके २०४ बुधके ३६८, बृहस्पतिके ९०० शुक्रके ५३५ और शनिके ३९ भगण बाई भोरको चलते हैं ॥ ४१ ॥ १२ ॥ तालोकाभ्यामाह मनुदस्रास्तु कोजस्य बोधस्याष्टाष्टसागराः॥ कृताद्रिचन्द्रा जैवस्य त्रिखाङ्काश्व भुगोस्तथा ॥ १३ ॥ शनिपातस्य भगणाः कल्पे यमरसतवः॥ भगणाः पूर्वमेवात्र प्रोक्ताश्चन्द्रोचपातयोः॥४४॥ कुजसम्बन्धिनः। तुकारात्पातस्य भौमपातस्य कल्पे भगणाश्चतुर्दशाधिकं शतद्वयम् । बौधस्य बुधसम्बन्धिनः शनिपातस्येत्यस्यैकदेशः पातस्येत्यत्रान्वेति । बुधपातस्य द्वादशोनम पञ्चशती । जैवस्य गुरुपातस्य चतुःसप्तत्यधिकं शतम् । भृगोः शुक्रस्य तथा सम्बन्धिनश्चकारात्पातस्य शुक्रपातस्येत्यर्थः । व्यधिका नवशती । शनिपातस्य द्विरस पटुका भगणाः कल्पे भवन्ति । नन्वस्मिन् प्रसंगे चंद्रस्योचपातयोर्भगणाः कथं नोक्ता इति मन्दाशङ्कापाकरणाय पूर्वोक्तं स्मारयति । भगणा इति । चंद्रोच्चपातयोश्चन्द्रस्य मन्दोचपातयोर्भगणा अत्रास्मिन्नधिकारे पूर्व ग्रहयुगभगणकथने एवकारो विस्मरणनिरासार्थकः । प्रोक्ताश्चन्द्रोच्चस्येत्यादिश्लोकेनोक्ताः ॥ ४३ ॥ ४४॥ मा०टी०-एक कल्पमें मंगल के २१४, बुधके १८८, बृहस्पतिके १७४, शुक्रके ९०३, शनिके ६६२ पातके बाई ओर चलनेवाले भगण हैं पहनेही चन्द्रमाके पात कहे हैं॥४३४४॥ अथाभिमतकाले ग्रहगतभोगानयनं विवक्षुस्तदुपजीव्याहर्गणसाधनार्थं प्रवृत्तग्रहं चार कालागताब्दज्ञानोपजीव्यं कृतयुगान्तीयगताब्दज्ञानं श्लोकत्रयणाह Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034621
Book TitleSurya Siddhant
Original Sutra AuthorN/A
AuthorBaldevprasad Mishra
PublisherGangavishnu Krishnadas
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy