________________
(१८ )
सूर्यसिद्धान्तः
[ प्रथमोऽअवशिष्टा ये चान्द्रमासास्तेऽधिमासा एव भवन्ति नान्ये । अनेन चान्द्रत्वमधिमासानां स्पष्टीकृतम् । अत्रोपपत्तिः । त्रिंशत्तिथ्यात्मकस्य रवीन्दुयुतिकालरूपदशतावधेश्वान्द्रमासस्य द्वादशर शिमितेन सूर्यद्वन्तरेणैव सिद्धिः । कथमन्यथा 'दशान्ते जातस्य मन्दशीघ्रयोः सूर्येन्द्वोर्योगस्य पुनर्दशन्ते संभवः । द्वादशराश्यन्तरं वकं भगणान्तरमतो भगणान्तरेण चान्द्रो मासः सिद्धः । सौरमासापेक्षया यदन्तरेण चान्द्रमासानामधिकत्वं त एवाधिमासा इति स्वरूपमेव वक्ष्यमाणोपयोगात्परिभाषितम् ॥ मा० टी० - चंद्रमा और सूर्य का मगणान्तर चान्द्रमास है । चन्द्रमास से रविमास घट नेपर अधिमास होजाता है ॥ ३५ ॥
अथ वक्ष्यमाणावमसूर्य सावनयोः स्वरूपमाह
सावनाहानि चान्द्रेभ्यो द्युभ्यः प्रोज्झ्य तिथिक्षयाः ॥ उदयादुदयं भानेोर्भूमिसावनवासराः ॥ ३६ ॥
चान्द्रेभ्यो द्युभ्यो वक्ष्यमाणवान्द्रदिवसेभ्यः सकाशादित्यर्थः । सावनाहानि सावन दिनानि प्रोज्झ्य त्यक्त्वावशेषं तिथिक्षयाः । तिथिषु चान्द्रदिनेषु सावनदिनानामवशेषतुल्यः क्षयो न्यूनत्वम् । यद्वा तिथिशब्देन सावनो दिवसस्तस्य चान्द्रदि
सात्क्षय इति स्वरूपमेव वक्ष्यमाणोपयोगात्परिभाषितम् । ननु भोदया भगणैरित्यादिना पूर्व सर्वेषां सावनदिवसा उक्ता इत्यत्र कस्य ग्राह्या इत्यतः सूर्यसावन स्वरूप कथनच्छलेनोत्तरमाह-उदयादिति । सूर्यस्योदयकालमारभ्याव्यवहिततदुदयकालपर्यन्तं यः कालः स एको दिवसः । इति ये दिवसास्ते भूमिसावनवासराः । भूदिचसा उदयस्य भूसम्बन्धेनावगमात् । सावनादिवसाश्चेत्यर्थः । तथाच निरुपपदसाचनभूमिशब्दाभ्यां सूर्यस्य वासरा एवं नान्येषां सोपपदत्वाभावादिति भावः ॥ ३६ ॥ मा० टी० - चन्द्रदिन से सावन दिन दूर करनेपर तिथिक्षय होता है । सूर्य के एक उदय दूसरे उदयतक एक भौम या सौर दिन होता है ॥ ३६ ॥
ते कियन्त इत्यतस्तत्प्रमाणं चान्द्रदिनपमाणं चाह
वसुव्यष्टाद्रिरूपां कसप्ताद्वितिथयो युगे ॥
चान्द्राः खाष्टखखव्योमखानिखर्तुनिशाकराः ॥ ३७ ॥ अष्टाश्विगज सप्तभूगोनगसप्तपञ्चभूमिता युगे सूर्यसावनदिवसाः । भान्द्रदिवसा युगतियय इत्यर्थः । अशीतिशून्यचतुष्कत्रिखनृपा एते त्रिंशद्वताश्चान्द्रमासा उक्तप्रायाः । अनेनैव चान्द्र दिवसानामुपपत्तिः सूर्यचन्द्रयोर्भगणयोरन्तररूपचान्द्रमा सास्त्रिंशद्गुणिता इति स्पष्टीकृताः ॥ ३७ ॥
"
भा० टी०-युगमें १५७७९१७८२८ सौर देने और १६०३००००८० तिथि ( चन्द्रदिन ) हैं ॥ ३७ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com