________________
ध्यायः १] संस्कृतटीका-भाषाटीकासमतः। (१५) तेन भगणः प्राहरुक्तः । क्रांतिवृत्ते द्वादशराशीनां सत्त्वात्तगोगेन चक्रभोगसमाप्तेर्यस्थानमारभ्य चलितो ग्रहः पुनस्तत्स्थानमायातिः स चक्रभोगः । परिवर्तसंज्ञोऽपि द्वादशराशिभोगाद्भगण इत्यर्थः । ननु क्रान्तिवृत्ते सर्वप्रदेशेभ्यः परिवर्तसम्भवादत्रकः परिवादिभूतः प्रदेश इत्यतआह-पोष्णान्त इति । सृष्ट्यादौ ब्रह्मणा क्रान्तिवृत्ते खेतीयोगतारासन्नप्रदेशे सर्वग्रहाणां निवेशितत्वात्तदवधितो ग्रहचलनाच । पौष्णस्य खेतीयोगताराया अन्ते निकटे प्रदेशे तथाच खेतीयोगतारासन्नाग्रिमस्थानमेवाद्यन्तावधिभूतामति भावः ॥ २७ ॥
भा० टी०-शीघ्र चलनेवाले ग्रह थोडे समयमें, मौर थोडे चलनेवाले मधिक समयमै गमन करते हैं। रेवतीके मंतमें फिर लौट आनेसे भगण होता है ॥ २७ ॥
ननु परिवर्तस्य भगणसंज्ञात्वयुक्ता व्यादिराशीनामपि भगणत्वादित्यतः परिभाषाकथनच्छलेन भगणस्वरूपमाह
विकलानां कलाषष्टया तत्पष्टया भाग उच्यते ॥
तत्रिंशता भवेद्राशिभगणो द्वादशैव ते ॥२८॥ यथा मूतकाले प्राणकाल आदिभूतस्तथा क्षेत्रपरिभाषायां विकलाः सुक्ष्मादिभूतास्तासां षष्टयैका कला कलानां षष्ट्या भोगोंऽशः क्षेत्रपरिभाषाभिः। कथ्यते भागांत्रशता राशिः स्यात् । ते राशयः सकला द्वादश । एक्कारस्त्रिचतुरादीनां निरामार्थः । तथाच साकल्यै गणपदप्रयोगाद्भगणस्य भोगेऽपि भगणव्यवहाराच पूर्वोक्तं युक्तमिति भावः ॥ २८ ॥
भा० टी०-६० विकलाकी एक कला, और ६० कलाका एक भाग होता है। ३० भाग ( अंश) की एक राशि और १२ राशिका एक भगणहोता है । २८ ॥ अथ भगणान्विवक्षुः प्रथमं सूर्यबुधशुक्राणां भौमगुरुशनिशीघ्रोच्चानां च भगणानाह
युगे सूर्यज्ञशुक्राणां खचतुष्करदार्णवाः ॥
कुजार्किगुरुशीघ्राणां भगणाः पूर्वयायिनाम् ॥ २९ ॥ महायुगे सूर्यबुधशुक्राणां खानां चतुष्कर्मकस्थानादिसहस्रस्थानान्तचतुःस्थानस्थितानि शून्यानि ततोऽयुतादिप्रयुतस्थानपर्यन्तं दंतसमुद्रास्तथा च युगसौरवर्षाणि खाभ्रखानीद्वरामवेदमितानि भगणा द्वादशराशिभोगात्मकपरिवर्तानां संख्या भवंतीति शेषः । भौमशनिबृहस्पतीनां यानि शीघ्राणि शीघ्रोच्चानि तेषामेतन्मिता भगणाः । चकारः समुच्चयार्थकोऽनुसन्धयः । अत्र कक्षाक्रमेण चारक्रमेण वा गुरोः खलमध्यगता मव तीति न तथोद्देशः । स्वतंत्रस्य नियोगानहत्वाद्वा । नन्वाकाश एषां बिम्बाभावादवलम्बनासम्भवेन गत्यभावात कथं भगणा उक्ता इत्यत आह-पूर्वयायिनामिति । पूर्व
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com