________________
(१४) सूर्यसिद्धान्त:
[ प्रथमोऽग्रहो विषुवन्मार्गगोऽपि तद्विषुवप्रदेशासन्नक्रान्तिवृत्तपदेशेन ग्रहाकाशगोलएव स्वसमसूत्रेणाकृष्यत इति नानुपपत्तिः अत एव स्वमार्गगा इति क्रान्तिवृत्तानुसृतस्वाकाशगोलस्थकक्षा मार्गगता इत्यर्थकमुक्तमिति संक्षेपः ॥ २५ ॥
मा० टी०-सदा अतिशीघ्र चलनेवाले नक्षत्र से, पाछे चलते हुए ग्रह पराजित होकर अपने लाडीमें तुल्यभावसे विलम्ब करते हैं ॥ २५ ॥ अथात एव ग्रहाणां लोके प्राग्गतित्वं सिद्धमित्यतआह
प्राग्गतित्वमतस्तेषां भगणेः प्रत्यहं गतिः॥
परिणाहवशादिना तशाद्भानि भुञ्जते ॥ २६ ॥ अतोऽवलम्बनादेव तेषां ग्रहाणां प्राग्गतित्वं प्राच्यां दिशि गतिर्येषां ते प्राग्गतयस्त द्भावः प्राग्गातत्वं सिद्धम् । लम्बनस्वरूपैव ग्रहाणां पूर्वगतिरुत्पन्नालोकः कारणानभिज्ञैः प्रत्यक्षावगततया तच्छक्तिजानता कल्पितेत्यर्थः । सा कियतीत्यत आह-भगणैरिति । वक्ष्यमाणभगणैः प्रत्यहं प्रतिदिनं गतिः प्राग्गमनरूपा भगणानां गत्युत्पन्नत्वाद्भगणसम्वन्धिवक्ष्यमाणदिनैः सूर्यसावनग्रहभगणा लभ्यन्ते तदैकेन दिनेन केत्यनुपाताज्ज्ञेया । ननु ग्रहभगणानां तुल्यत्वाभावात्मतिदिनं ग्रहगतिर्भिन्नात पूर्वलंबनरूपा ग्रहगतिरयुक्तोक्ता ग्रहलम्बनस्याभिन्नत्वादित्यत आह-परिणाहवशादिति । परिणाहः कक्षापारधिस्तदशात्तदनुरोधादियं ग्रहगतिभिन्ना तुल्या । अयमभिप्रायः । ग्रहाणां लम्बनं तुल्यप्रदेशे न परन्तु स्वस्खकक्षायां तत्प्रदेशे तुल्ये या कलास्ता गतिकलास्तास्तु महति कक्षावृत्तेऽल्पा लघुकक्षावृत्ते बढ्यः । सर्वकक्षापरिधीनां ऋकलाङ्कितत्वात् । भगणास्तु गतिवशादेव यस्यकक्षावृत्तं महत्तस्याल्पायस्य च लघुकक्षावृत्तं तस्य बहवस्तदुत्पन्ना गतिरपि तथेति विरोधः । नन्वेकरूपगात विहाय भिन्नरूपा गतिः कथमङ्गीकृतेत्यत आह-तदशादिति । भिन्नगतिवशाभानिराशीन्नक्षत्राणि भुञ्जते ग्रहा भुजन्तीत्यर्थः । तथाच.ग्रहराश्यादिभोगज्ञानार्थमियमेव गतिरुपयुक्ता नैकरूपेति भावः ॥२६॥ . भा० टी०-भिन्न कक्षासे उत्पन्न हुए भगणके हेतु प्रतिदिनकी गतिमें पृथक्ता होती है, तिसी कारणसे राशिभोग कालादिकी. विभिन्नता होती है ॥ २६॥ अथ भमोगे विशेष वदन्वक्ष्यमाणभगणस्वरूपमाह
शीघ्रगस्तान्यथाल्पेन कालेन महताल्पगः॥
तेषां तु परिवर्तन पोष्णान्ते भगणः स्मृतः ॥२७॥ अथशब्द पूर्वोक्तेविशेषसुचकः । शीघ्रगतिग्रहस्तानि मान्यल्पेन कालेन नं भुनक्त्य ल्पगतिम्रहो बहुकालेन भुनक्ति तुल्यराश्यादिभोगो मन्दशीघ्रगतिग्रहयोस्तुल्यकालेन न भवतीति विशेषार्थः । तेषां राशीनां परिवर्तन भ्रमणेन । तुकाराद्रहादिगतिभोगजनि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com