________________
घ्यायः १] संस्कृतटीका-भाषाटीकासमेतः ।
(१३) अस्य वर्तमानस्य ब्रह्मणो ग्रहनक्षत्रदेवदैत्यमानवराक्षसभूपर्वतवृक्षादिकचराचरं जंगमस्थावरात्मकं जगत्सृजतः सृजतीति सृजन् तस्य जगन्निर्मायकस्य शतसङ्ख्यागुणिताश्चतुःसप्तत्यधिकचतुःशतसख्या दिव्याब्दा गताः एभिर्दिव्यवहसष्टयादिप्रबहवायुनियोजनान्तं कर्म ब्रह्मणा कृतमिति फलितार्थः ॥ २४ ॥
भा० टी०-कल्पके आरम्भसे दिव्यमानके ४७४०० वर्ष बीतने पर ग्रह, नक्षत्र, देष, दैत्यादि चराचरकी सृष्टि हुई है ॥ २४ ॥ अथ ग्रहपूर्वगत्युत्पत्तौ कारणमाह
पश्चाद्वजन्तोऽतिजवानक्षत्रेः सततं ग्रहाः ॥
जीयमानास्तु लम्बन्ते तुल्यमेव स्वमार्गगाः ॥२२॥ पश्चादनन्तरं पुनरावृत्त्या पश्चात् पश्चिमदिगभिमुखं नक्षत्रैस्तारकादिभिः सह प्रहार सूर्यादयोऽतिजवात् प्रवहवायुसत्वरगतिवशात्सततं निरन्तरं व्रजन्तो गच्छन्तः स्वमार्गगाः स्वकक्षावृत्तस्था जीयमाना नक्षत्रैः पराजिता नक्षत्राणामग्रे गमनात् । अतएव लज्जयेव गुरुभूता इति तात्पर्थिः । तुल्यं समम् । एवकारादधिकन्यूनव्यवच्छेदः । लम्बन्ते स्वस्थानात्पूर्वस्मिल्लम्बायमाना भवन्ति । यथा लज्जितः पश्चाद्भवति नागे। तुकारादधोऽधाकक्षाक्रमानुरोधेन शन्यादिग्रहाणां चन्द्रान्तानां गुरुतापचयः शनिरतिगुरुभूतस्तस्मात् किंचिन्यूनो गुरुस्तस्मादपि भौम इत्यादि यथोत्तरम् । यस्य कक्षा महती. तस्य गुरुत्वाधिक्यं यस्य लम्बी तस्य तदनुरोधेन गुरुताल्पत्वमिति । एतदुक्तं भवति । ब्रह्मणा प्रवहवायौ नक्षत्राधिष्ठितो मूर्ती गोलः स्थापितस्तदन्तर्गताः स्वस्वाकाशगोल स्थाः शन्यादयो नक्षत्राधिष्ठितमूर्तगोलस्थक्रान्तिवृत्तस्थरेवतीयोगतारासन्नरूपमेषादिमदेशसमसूत्रस्थाः स्थापिताः । क्रान्तिवृत्तं तु मेषतुलस्थाने विषुववृत्तलग्नसम्पातात् त्रिभान्तरितक्रान्तिवृत्तप्रदेशौ स्वासन्नविषुववृत्तप्रदेशाभ्यां चतुर्विंशत्यंशान्तरेण दक्षिणोत्तरौ मकरकर्कादिरूपौ तदेव द्वादशराश्यात्मकं वृत्तं ग्रहचारभूतम् । विषुवत्तं तु ध्रुवमध्यस्थं निरक्षदशोपारंगम् । तत्र प्रवहवायुना स्वाघातेन मूर्ती नक्षत्रगोलो नाक्षत्रषष्टिघटीमः परिवर्तते । तदन्तर्गतवायुभिस्तदाघातेन वा ग्रहा भ्रमन्त्यपि नक्षत्रगोलस्थितक्रान्तिवृत्तीयमेषादिप्रदेशेन समं न गच्छन्ति वायूनां स्वल्पत्वात्तदाघातस्याप्यल्पत्वादिम्बानां गुरुत्वाच्च । अतस्तत्स्थानाद्ग्रहाणां लम्बनं दृश्यते । अत एवं नक्षत्रोदयकाले तेषां द्वितीयदिने नोदयः किन्तु ग्रहो लम्बितपदेशेन वायुना तदनन्तर मूर्ध्वमागच्छतीत्यनन्तरमुदयः। लम्बनं तु शन्यादीनां कक्षानुरोधेत गुरुत्वादायूनां तद्घातानां वा कक्षानुरोधेन बह्वल्पत्वात्तु यद्यपि वायोधुवानुदोधेन सरवानग्रहावलम्बन विषुवत्ते भवितुमुचितं न क्रान्तिवृत्ते । तथाच वक्ष्यमाणक्रान्त्यनुपपत्तिः क्रान्तिबु. चस्थद्वादशराशिभोगेन वक्ष्यमाणानां भगणानामनुपपत्तिश्च । तथापि वायुनावलम्बितो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com