________________
( १२ )
सूर्य्यसिद्धान्तः
[ प्रथमो
“ निजेनैव तु मानेन आयुर्वर्षशतं स्मृतम्” इति विष्णुपुराणोक्तेश्च । एतेन परमायु रिति निरस्तम् । ब्रह्मणोऽनियतायुदयासम्भवात् । तस्य ब्रह्मण आयुः शतवर्षरूप मस्यार्द्ध पञ्चाशद्वर्षपरिमितमितं गतम् । अयं वर्त्तमान आदिमः प्रथमः शेषकल्पः शेषायुदयस्य ब्रह्मदिवस उत्तरार्द्धस्य प्रथमदिवसो वर्त्तमान इति फलितार्थः ॥ २१ ॥
भा० टी० - ब्रह्म अहोरात्र की संख्या से ब्रह्माकी परमायु शत वर्ष है । गतकल्पमें तिनकी आधी आयु बतिगई । यह कल्प द्वितीयार्द्धका पहला दिन है || २१ || अथ वर्त्तमानेऽस्मिन्दिवसेऽप्येतद्गतमित्याह
कल्पादस्माच्च मनवः षड्व्यतीताः ससन्धयः ॥ वैवस्वतस्य च मनोर्युगानां त्रिघनो गतः ॥ २२ ॥
अस्माद्वर्त्तमानात्कल्पाद्ब्रह्मदिवसात् षट्संख्याका मनव एकसप्ततियुगरूपाः ससनन्धयः सप्तभिः सन्धिभिः कृतयुगप्रमाणैः सहिता व्यतीता गताः । चकार आयुषोऽ धमितमिति प्रागुक्तेन समुच्चयार्थकः । वर्त्तमानस्य सप्तमस्य मनोर्वैवस्वताख्यस्य युगानां त्रिवनस्त्रयाणां घनः स्थानत्रयस्थिततुल्यानां घातः सप्तविंशतिस ख्यात्मको गतः । सप्तविंशति युगानि गतानीत्यर्थः । चः समुच्चये ॥ २२ ॥
भ० टी० - ललके आदिले लेकर वैवस्वत मनुके पहले सन्धि सहित ६ मनु बीते हैं । और इस वैवस्वत मनुकेभी २७ युग बीत चुके हैं ॥ २२ ॥
अथ वर्त्तमानयुगस्यापि गतमेतदिति वदन्नमितकालेऽग्रतो वर्षगणः कार्य इत्याहअष्टाविंशा युगादस्माद्यातमेतत्कृतं युगम् ॥
अतः कालं प्रसंख्याय संख्यामेकत्र पिण्डयेत् ॥ २३ ॥ अष्टाविंशतितमाद्वर्त्तमानान्महायुगादेतदल्पकालेन पूर्वकाले साम्प्रतं स्थितं कृतं युगं गतम् । अतः कृतयुगान्तानन्तरमभिमतकाले कालं वर्षात्मकं प्रसंख्याय गणयित्वा संख्यां पञ्चस्थानस्थितां भिन्नामेकत्रैकस्थाने पिण्डयेत्सङ्कलनविषयां कुर्यात् । सर्वेषां गतानां योगं कुर्यादित्यर्थः ॥ २३ ॥
J
मा० टी० - षड् अठाईस युगका कृतयुग बीता है। इस कारण काल की संख्या करके : एक स्थान में गत वर्ष स्थिर करो ॥ २३ ॥
.
अथ कल्पादितो ग्रहादिभचक्रनियोजनकालं ग्रहगतिप्रारम्भ रूपमाह
ग्रहदेव दैत्यादि सृजतोऽस्य चराचरम् ॥ कृताद्रिवेद। दिव्यान्दाः शतघ्नो वेधसेो गताः ॥ २४ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com