SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ ध्यायः १] संस्कृतटीका-भाषाटाकासमतः। (११) अथ कल्पप्रमाणं सावशेषमाह ससन्धयस्ते मनवः कल्पे ज्ञेयाश्चतुर्दश ॥ कृतप्रमाणः कल्पादो सन्धिः पञ्चदशः स्मृतः॥ १९॥ ते एकसप्ततियुगरूपा मनवः स्यायंभुवाद्याः ससन्धयः स्वस्वसन्धिसहिताश्चतुर्दशसंख्याकाः कल्पकाले ज्ञातव्याः । स्वसन्धियुक्तचतुर्दशमनुभिः कल्पः स्यादित्यर्थः । ननु ग्रन्थान्तरे कल्पमानं युगसहस्रं त्वया तु युगमानमेकसप्ततिगुणं मनुमानम् ३०६७ २०००० कृताब्द १७२८००० युक्तससन्धिमनुमानम् । ३०८४४८००० । इदं चतुर्दशगुणं कल्पप्रमाणं कृतोनं युगसहस्रमित्यतआह-कृतप्रमाण इति । कल्पादौ प्रथममन्वारम्भे कृतयुगवर्षमितो मनोश्चतुर्दशत्वेऽप्याद्यः पञ्चदशक: स' न्धिः काल रुक्तः । तथाच कृतवर्षानन्तरं पथममन्वारम्भ इति तद्वर्षयोजनेनाविरोध इति भावः ॥१९॥ __ भा० टी०-कल्पमें सन्धिके साथ १४ मनु होते हैं । कल्पकी आदिमें कृतयुगप्रमाणकी एक सन्धि अर्थात् कल्पमें १४ मनु मोर पंद्रह सन्धियां होती हैं ॥ १९ ॥ अथ ब्रह्मणो दिनराव्योः प्रमाणमाह इत्थं युगसहस्रेण भूतसंहारकारकः ॥ कल्पो ब्राह्ममहः प्रोक्तं शर्वरी तस्य तावती ॥ २०॥ इत्थं पूर्वोक्तप्रकारसिद्धेन युगसहस्रेण भूतसंहारकारको ब्राह्मलयात्मकः कल्पकालो ब्राह्मं ब्रह्मणः सम्बन्ध्यहो दिनं कालज्ञैरुक्तम् । तस्य ब्रह्मणस्तावती दिनपरिमिता शवेरी रात्रिः कल्पद्वयं तदहोरात्रमिति फलितार्थः ॥ २० ॥ भा० टी०-इस प्रकारसे सहस्र युगका मतसंहारकारी कल्प होता है। यही ब्रह्माका एक दिन और ऐसेही उसकी रात्रि है ॥ २० ॥ अथ ब्रह्मण आयुःप्रमाणमतीतवयाप्रमाणं वाह परमायुः शतं तस्य तयाहोरात्रसंख्यया ॥ आयुषोऽर्द्धमितं तस्य शेषकल्पोऽयमादिमः ॥ २१ ॥ परमपरं शृणु पूर्वोक्तं त्वया श्रुतमपरं च वक्ष्यमाणं शृणु त्वम् । यद्वा परमेति दैत्यवरार्थकं सम्बोधनम् । त्वं तस्य ब्रह्मणस्तथा पूर्वोक्तयाहोरात्रमित्याकल्पद्वयरूपया शतं शतवर्षपरिमितमायुः शरीरधारणकालं जानीहि । एतदुक्तं भवति । 'अहोरात्रमानात्पूर्वपरिभाषया मासमानं तस्मात्पूर्वोतपरिभाषया मासमानं तस्मात्पूर्वोक्तपरिभाषया ब्रह्मणो वर्षमानमेतच्छतसङ्ख्यया ब्रह्मायुरिति । नतु यथाश्रुतार्थेन कल्पशतद्वयमायुः की। दीनामाप दिनसल्ययायुषोऽनुक्तेः सुतरां ब्रह्मणः शतदिनात्मकायुषोऽसम्भवात् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034621
Book TitleSurya Siddhant
Original Sutra AuthorN/A
AuthorBaldevprasad Mishra
PublisherGangavishnu Krishnadas
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy