________________
( १० )
सूर्यसिद्धान्तः
[ प्रथमोs
युगस्य दशमो भागश्चतुस्त्रिव्येकस गुणः || क्रमात्कृतयुगादनि षष्ठांशः सन्ध्ययो स्वकः ॥ १७ ॥
प्रागुक्तदिव्यवर्षद्वादशसहस्रमितस्य युगस्य दशमो भागो दशांश इत्यर्थः । चतुर्द्धा क्रमेण चतुस्त्रिद्वयेकेगुणितः । गुणक्रमात् कृतयुगादीनां 1 गुणक्रमात् कृतयुगादीनां कृतत्रेताद्वापरकालयुगानां मानं स्यादिति शेषः । ननु मनुग्रन्थे कृतादिमानं दिव्यवर्षप्रमाणेन ४०००। ३००० । २००० । १००० । अत्र तु तन्मानं तद्वर्षप्रमाणेन ४८०० । ३६०० ॥ २४०० । १२०० । इति विरोध इत्यत आह । षष्ठ इति । स्वकः स्वसम्बन्धी षष्ठो विभागः सन्ध्ययोराद्यन्तसन्ध्ययोरैक्यकाल इति शेषः । तथा च मदुक्तमानानि ४८०० । ३६०० । २४०० । १२०० । एषां षडंशाः ८०० 1. ६०० । ४०० । २०० । एते स्वस्वयुगानामाद्यन्तयोः संध्ययोर्योगा इत्येषामधे सन्धिकालः । प्रत्येक माद्यन्तयोः सन्धिकालः ४०० । ३०० । २०० । १०० । अनेन प्रत्येकं मदुक्तमानं न्यूनीकृतं ग्रन्थान्तरोक्तं केवल मानं भवति न स्वसन्धिभ्यां सहितम् । यथा कृतादिसन्धिः ४०० कृतमानं ४००० कृतान्तसन्धिः ४०० त्रेतादिसन्धि३०० । त्रेतामानम् ३००० त्रेतान्तसन्धिः ३०० द्वापरा दिसन्धिः २०० द्वापरमानं २००० द्वापरान्तसन्धिः २०० कल्यादिसन्धिः १०० कलिमानम् १००० कल्यन्तसन्धिः १०० । एवं च स्वसन्धिभ्यां सहितं मयोक्तं स्वसम्बन्धात्सन्ध्ययोस्तदन्तर्गतत्वाच्चोत न विरोध इति भावः ॥ १७ ॥
मा० टी० - चतुयुर्गके दशम भागको ४, ३, २ और एकसे गुणा करके कृतादिका युगमान होता है । स्वीय षष्ठांश भागही संध्या है ॥ १७ ॥
1
अथ कल्पमानार्थ मनुमानं तत्सन्धिमानं चाह
युगानां सप्ततिः सैका मन्वन्तरमिहोच्यते ॥ कृताब्दसंख्या तस्यान्ते सन्धिः प्रोक्को जलपुत्रः ॥ १८ ॥
युगानां सैकासप्ततिरेकसप्ततिर्महायुगमित्यर्थः । इह मूर्त्तकाले मन्वन्तरं मन्वारम्भतत्समाप्तिकालयोरन्तरकालमानमित्यर्थः । मूर्त्तकालमानभेदाभिज्ञैः कथ्यते । तस्य मनोरन्ते विरामे जाते सति कृताब्दसङ्ख्या मदुक्तकृतयुगवर्षमिति सन्धिः कालविद्भिः प्रकर्षेण द्वितीयमन्वारम्भपर्यंतं भूतभाविमन्वोरन्तिमादिसन्धिरूपैककालेन कथितः । तत्स्वरूपमाह - जलप्लव इति 1 जलपूर्णा सकला पृथ्वी तस्मिँलोकसंहारकाले भवति ॥ १८ ॥
० टी० एकतर युगका एक मन्वन्तर होता है; तिसके अन्त में कृतयुगमान संख्यक सन्धिमान है | उसी समय जबप्लव (बाढ ) होता है ॥ १८ ॥
-
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com