________________
व्यायः १ संस्कृतटोका-भाषाटीकासमेत
(९) समुच्चये । तेन द्वयोरित्यर्थः । वर्षम् । एवकारस्तयोदिनरात्र्योर्भेदेन वर्षभेदः स्यादिति मन्दशङ्कानिवारणार्थम् ॥ १४ ॥
भा० टी०-सुर व मसुरों की दिन रात्रिका विपर्यय पर्थात् जब एकका दिन होलाहे तो दूसरेकी रात्रि होती है ३६० दिव्य अहोरात्रसे देवासुरका एक वर्ष होता है . १४ ॥ अथ कल्पमानं विवक्षुः प्रथमं युगमानमन्यदपि श्लोकाभ्यामाह
तद्वादशसहस्राणि चतुर्युगमुदाहृतम् ॥ सूर्यान्दसंख्यया द्वित्रिसागरेरयुताहतः ॥ १५ ॥ सन्ध्यासन्ध्यांशसहितं विज्ञेयं तच्चतुर्युगम् ॥
कृतादीनां व्यवस्थेयं धर्मपादव्यवस्थया ॥ १६ ॥ तेषां दिव्यवर्षाणां द्वादशसहस्राणि चतुर्युगम् । चतुर्णा युगानां कृतत्रेताद्वापरक ख्याख्यानां समाहारो योगस्तदात्मकं महायुगमित्यर्थः । एतद्दयोतनाथै चतुरित्युक्तिरन्यथा युगमित्युक्त्या तद्वैयर्थ्यापत्तेः । मानाभिरुक्तम् । अथ सौरमानेन तत्संख्यां विशेषं चाह-सूर्याब्दसंख्ययोत । तद्देवासुरमानेनोक्तं चतुर्युगं द्वादशसहस्रवर्षास्मकं महायुगं सन्ध्यासन्ध्यांशसहिसम् । युगचरणस्याद्यन्तयोः क्रमेण प्रत्येकं सन्ध्यासन्ध्यांशाभ्यां युक्तं स देवसन्ध्यासन्ध्यांशावन्तर्गतौ न पृथग्यत्रैतादृशम् । सौरवर्षप्रमाणेन द्वित्रिसागरैः 'अङ्कानां वामतो गतिः' इत्यनेन द्वात्रिंशदधिकैश्चतु:शतमितैः अयुतेन दशसहस्रेण गुणितैः । खचतुष्कद्वात्रिंशचतुर्भिः परिमितं ज्ञेयमित्यर्थः । अथ चतुर्युगान्तर्गतयुगांघ्रीणां विशेषतो मानाश्रवणात्समं स्यादश्रुतत्वादितिन्यायेन प्रत्येक महायुगचतुर्थाशो मानमिति चतुर्युगमित्येन फलितं निषेधति-कृतादीनामिति । कृतत्रेताद्वापरकालयुगानाम् । धर्मपादव्यवस्थया धर्मचरणानां स्थित्या । इयं वक्ष्यमाणा व्यवस्थास्थितिज्ञैया न. तु समकालप्रमाणस्थितिः । अयमर्थः । कृतयुगे चतुश्चरणो धर्म इति तस्य मानमधिकम् । ततस्त्रेतायां धर्मस्य त्रिपादवत्वात्तदनुरोधेन त्रेतामान न्यूनम् । एवं द्वापरकल्योधर्मस्य क्रमेण व्येकचरणवत्त्वात् कृतत्रेतामानाभ्यां क्रमेणोक्तानुरोधान्न्यूनमानम् । नतु समं मानमिति ॥ १५ ॥ १६ ॥
भा००-दिव्य मानके १२००० हजार वर्षका एक चाकडी-युग होताहै। सूर्याब्दकी संख्या ४३२०००० वर्ष है ॥ १५ ॥ सन्ध्या भौर सन्ध्यांशके साथ जो चतुर्युग हैं तिसमें धर्मपादके अनुसार कृतादि युगमानकी व्यवस्थिति है ॥ १६ ॥
अथ सर्वधर्मचरणयोगेन दशमितेन महायुगं भवति तहि स्वस्वधर्मचरणैः किमित्यनुपातेन पूर्वोक्तफालतेन कृतादियुगानां मानज्ञानं सविशेषमाह
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com