________________
(२२२) सूर्यासद्धान्तः
[ यत्रोदशोऽद्वैरपक्रमैः स्पष्टाधिकारानीतक्रान्त्यशैमषादीनां मेषादिराशित्रयान्तानां मेषान्तवृषान्तमिथुनान्तानामित्यर्थः। तिस्रस्त्रिसंख्याकाः प्रागनिर्मितावृत्तरूपाः कक्षाः । अपक्रमात् अपशब्दस्योपसर्गत्वात्क्रमादित्यर्थः । प्रकल्पयेत् शिल्पज्ञगणको विषुववृत्तानुरोधेनाधारवृत्तद्वय उत्तरतो निबन्धयेदित्यर्थः । कर्कादीनामाह-ता इति । मेषादिकक्षानिवद्धाः कर्कादीनां कर्कसिंहकन्यानामादिप्रदेशानां विपर्ययावत्यासात् । चकारः समुच्चये। तेन प्रकल्पयोदित्यर्थः । मिथुनान्तवृत्तं कर्कीर्वृषान्तवृत्तं सिंहादेमपान्तवृत्तं कन्यादरिति फलितम् । तुलादीनामाहे- तद्वदिति । तुलादीनां तुलावृश्चिकधन्विनां तिस्रः । अन्यास्त्रिसंख्याकाः कक्षास्तवदेकद्वित्रिराशिकान्त्यशैस्तुलान्तवृश्चिकान्तधनुरन्तानां याम्यगोलाश्रिताः । विषुववृत्ताद्दक्षिणभाग आधारवृत्तद्वये निबद्धाः कार्याः । गणकेनेति शेषः । मकरादीनामाह-मृगादीनामिति । विलोमत उत्क्रमात्तलादिसम्बद्धाः कक्षा मकरादीनां भवन्ति । धनुरन्तवृत्तं मकरादेवृश्चिकान्तवृत्तं कुम्भादेस्तुलान्तवृत्तं मीनादेरिति फलितम् । ताराणां कक्षानिबन्धनमाह-कक्षाधारादिति । भानामश्विन्यादिसप्तविंशतिनक्षत्रबिम्बानां याम्योदग्गालसंस्थानां विषुववृत्तादक्षिणोत्तरभागयोर्यथायोग्यमवास्थ. तानां यन्नक्षत्रध्रुवकस्पष्टक्रान्तिरुत्तरा तन्नक्षत्राणामुत्तरभागावस्थितानां येषां स्पष्टक्रान्तिदक्षिणा तेषां दक्षिणभागावस्थितानामित्यर्थः। दयोदक्षिणोत्तरभागयोः । अपिशब्दो याम्योत्तरनक्षत्रक्रमेण व्यवस्थार्थकः । कक्षाधारात्कक्षाणामाधारवृत्तदयात्तयोरित्यर्थः । सप्तम्यर्थे पञ्चमी । कक्षाः स्वस्पष्टक्रान्तिज्योत्पत्राज्याव्यासाप्रमाणेन वृत्ताकाराः प्रकल्पयेत् । शिल्पज्ञो निवन्धयेत् । अन्येषामप्याह-अभिजित इति । अभिजिन्नक्षत्रविम्वस्य सप्तर्षिबिम्बानामगस्त्यनक्षत्रबिम्बस्य ब्रह्मसंज्ञकतारायुक्तलुब्धकापांवत्सादिनक्षत्रविम्बानां चकारोऽनुसन्धेयः । तथा कक्षा यथायोग्य प्रकल्पयेदित्यर्थः । निवन्धनप्रकारमुपसंहरति-मध्य इति । सर्वासामुक्तकक्षाणां मध्ये तुल्यभागेऽनाधारवृत्तमध्यप्रदेशे । एवकारादन्ययोगव्यवच्छेदः । वैषुवती कक्षा विषुवसम्बन्धिनी वृत्तरूपा संस्थितावस्थिता भवति । तथा शिल्पज्ञः कक्षां निबन्धयेदित्यर्थः । विषुववृत्तात्स्वस्पष्ट. क्रान्त्यन्तरेण स्वाज्याव्यासाप्रमाणेनाहोरात्रवृत्तमाधारवृत्तयोनिबन्धयोदति निष्कष्टोऽर्थः ॥५॥ ६ ॥ ७ ॥ ८॥९॥
भाटी०-स्वाहोरात्रार्द्धकर्णके परिमाणसे व्यासयुक्त तीन वृत्तोंको बनाकर प्रत्येकमें ३६० भाग अंकित करे । क्रांतिविक्षेपांश मंकित दक्षिण उत्तररेखामें मेषादिक भपक्रमके अनुसार, भपक्रमाशमें कहे हुए तीन वृत्त संयोग करे । वहीं विपरीतभावसे कर्कादिकी कक्षा है वैसेही दक्षिणीदशाम तुकादिकी तीन कक्षा संयुक्त को । वही विलोमके अनुसार मकरादिकी कक्षा होगी उत्तर दक्षिणमें साभिजित् (मभिजित् के सहित ) नक्षत्रोंकी कक्षाएँ आधार कक्षाके उपर संयुक्त करे। इसी प्रकारसे सप्तर्षि, अगस्त्य, ब्रह्महृदयादिकी कक्षा करे । सबके मध्य मागमें वैषुवती कक्षा स्थित रागी ॥ ५॥६॥७॥ ८॥९॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com