SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ अध्यायः १३.] संस्कृतटीका-भाषाटीकासमतः । (२२३ अथ गोले मेषादिराशिसन्निवेशं सार्धश्लोकेनाह तदाधारयुतरू+मयने विषुवद्वयम् ॥ विषुवत्स्थानतो भागः स्पष्टै गणसञ्चरात् ।। क्षेत्राण्येवमजादीनां तिर्यग्ज्याभिः प्रकल्पयेत् ॥१०॥ तदाधारयुतेस्तद्विषुववृत्तमाधारमाधारवृत्तं तयोयुतेः सम्पातादूर्ध्वमुपरि । अन्तिभाहोरात्राधारवृत्तयोः सम्पातेऽयने दक्षिणोत्तरायणसंधिस्थाने भवतः। अत्रोर्ध्वपदस श्वारादाधारवृत्तमूवाधिरं ग्राह्यं न तिर्यगुन्मण्डलाकारम् । तेनैतत्फलितम् । विषुवद्वत्तस्योधिराधारवृत्तऊर्ध्वमधश्च सम्पातस्तत्रो+सम्पातान्मकराद्यहोरात्रवृत्तं चतुर्विशत्यंशैस्तदाधारवृत्ते दक्षिणतो यत्र लग्नं तत्रोत्तरायणसन्धिस्थानम् । एवमधः सम्पातात्क कांद्यहोरात्रवृत्तं चतुर्विशत्यस्तिदाधारवृत्त उत्तरतो यत्र लग्नं तत्र दक्षिणायनसन्धिस्थानामति । अयनाद्विषुवस्य विपरीतस्थितत्त्वादूर्ध्वशब्दद्योतितविपरीताधःशब्दसम्बन्धा. द्विषुवयं भवति । तात्पयार्थस्तु तिर्यगुन्मण्डलाकाराधारवृत्तविषुवदत्तसम्पातौ पूर्वापरौ क्रमेण मेषादितुलादिरूपौ विषुवत्स्थाने भवत इति । अथ, राशिसाफल्यसन्निवेशमाहविषुवत्स्थानत इति । विषुवत्प्रदेशात्स्फुटै राशिसम्बन्धिभिस्त्रिंशन्मितैरैशैभंगणसञ्चरात् राशिसाकल्यसन्निवेशात्तिर्यग्ज्याभिरुक्तवृत्तानुकारातिरिक्तानुकारसूत्रवृत्तप्रदेशैः । अजादीनां, मेषादीनाम् । एवमयनविषुवत्कल्पनरीत्या तदन्तराले क्षेत्राणि स्थानानि सुधीगणकः प्रकल्पयेदयेत् । यद्यथा पूर्वदिक्स्थविषुवत्थानागोलवृत्तद्वादशांशखण्डप्रदेशेन मेषान्ताहोरात्रवृत्ते पूर्वभागे यत्र स्थानं तत्र मेषान्तस्थानं तस्मात्तद. न्तरेण वृषान्ताहोरात्रवृत्ते तदन्तरेण वृषान्तस्थानमस्मादयनसन्धिस्थानं तत्प्रदेशान्त. रेण मिथुनान्तस्थानमस्मात्पश्चिमभागे कर्कान्ताहोरात्रवृत्ते तदन्तरण कान्तस्थानमस्मादपि सिंहान्ताहोरात्रवृत्ते तदन्तरेण सिंहान्तस्थानमस्मादपि तदन्तरेण पश्चिमविषुवत्स्थानं कन्यान्तस्थानमस्मादपि पूर्वभागे तुलान्ताहोरात्रवृत्ते तदन्तरेण तुलान्तस्थानमस्मादपि वृश्चिकान्ताहोरात्रवृत्ते तदन्तरेण वृश्चिकान्तस्थानमस्मादपि तदन्तरेणायन सन्धिस्थानं धनुरन्तस्थानमस्मात्कुम्भायहोरात्रवृत्ते तदन्तरेण मकरान्तस्थानमस्मादपि मीनाद्यहोरात्रवृत्ते तदन्तरेण कुम्भान्तस्थानं मीनादिस्थानं च । अस्मादपि पूर्वविषुवे मीनान्तस्थानं मेषादिस्थानं च तदन्तरेणति व्यक्तम् ॥ १० ॥ मा० टी०-विषुवती मोर आधारकक्षाके संयुत स्थानसे ऊपरकी मोर दो विषुध अंकितकरे । तदुपरान्त विषुवतीसे राशिअन्तरमें मेषादि १२ क्षेत्र तिरछे भावसे निर्णय करे ॥ १०॥ ननु गोले वृत्ते द्वादशराशीनां सत्त्वादन्यथा चक्रकलानुपपत्तेरित्यत्रैकवृत्ताभावात् कथं राश्यङ्कन राशिविभागानुपपत्तिश्च । अन्तरालभागस्याकाशात्मकत्वादित्यतो वृत्तकथनच्छलेन पूर्वोक्तं स्पष्टयन्सूर्यस्त दृत्ते भगणभोगं करोतीत्याह Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034621
Book TitleSurya Siddhant
Original Sutra AuthorN/A
AuthorBaldevprasad Mishra
PublisherGangavishnu Krishnadas
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy