________________
( १९२) सूर्यसिद्धान्तः
[ द्वादशोऽभाटी-यह अनिरुद्धही परम ज्योतिष्मान् सविता हैं। अन्धकारस्थानको लांघकर भूतभावन सूर्यकिरणसे समस्त भुवनों में घूमते हैं ॥ १६ ॥ अथ परं ज्योतिरिति पादं विवृण्वन्नन्यदप्येतत्स्वरूपं श्लोकाभ्यामाह
प्रकाशात्मा तमोहन्ता महानित्येष विश्रुतः ॥ ऋचोऽस्य मण्डलं सामान्युना मूर्तिर्यजूंषि च ॥ १७ ॥ त्रयीमयोऽयं भगवान्कालात्मा कालकृद्विभुः ॥
सर्वात्मा सर्वगः सूक्ष्मः सर्वमस्मिन्प्रतिष्ठितम् ॥ १८॥ प्रकाशरूपोऽन्धकारनाशकोऽत एवैष अनिरुद्धाख्यः सूर्यो महान्महत्तत्त्वमिति । एवं विश्रुतो वेदपुराणादौ निरुक्तोऽस्य निरुक्तस्य सूर्यस्य । ऋचः ऋग्वेदमन्त्रा मण्डलं सामानि सामवेदमंत्रा उस्राः किरणाः यजूंषि यजुर्वेदमंत्रा. मूर्तिः स्वरूपम् । चः समुच्चये। अतएवायं निरुक्तो भगवान् षाड्गुण्यैश्वर्यतम्पन्नः । त्रयीमयो वेदत्रयात्मकः । कालरूपः कालस्य कारणम् । विभुर्जगदुत्पत्तिस्थितिनाशाय समर्थः । अतएव सर्वात्मा जगत्स्वरूपः सर्वगः सर्वत्र स्थितो व्यापकः सूक्ष्मोऽव्यापकमूर्तिधारी। अस्मिनिरुक्तसूर्ये सर्व जगत्प्रतिष्ठितम् । एतेन व्यापकाव्यापकत्वयोरत्राविरोधः ॥ १७ ॥ १८॥
भा०टा०-प्रकाशरूप, तमोनाशक, मौर महान् शब्दसे सुर्य ख्यात हैं । ऋग्वेद इनका मण्डल, सामवेद किरण, और यजुर्वेद तिनकी मूर्ति हैं। वेदत्रयात्मक यह भगवान् कालात्मा, कालकर्ता, मणिमादिगुणयुक्त, सर्वात्मा सर्वग, सूक्ष्म हैं और इनमेंही समस्त प्रतिष्टित हैं ॥ १७ ॥ १८ ॥ अथ पर्येति भुवनान्येषेत्यर्धं विवृणोति
रथे विश्वमये चक्रं कृत्वा संवत्सरात्मकम् ॥
छन्दस्यिश्वाः सप्त युक्ताः पर्यटत्येष सर्वदा ॥१९॥ त्रिलोक्यात्मके रथे संवत्सरात्मकं द्वादशमासात्मकं वर्षचक्र नियोज्य सप्तच्छन्दांसि गायत्र्युष्णिगनुष्टुब्बृहतीपंक्तित्रिष्टुब्जगत्योऽश्वाः युक्ताः संयोजिताः कृत्वा । छन्दांस्यश्वास्तत्र युक्तति पाठे सप्ताश्वान् रथे नियोज्येत्यर्थः । सर्वदा नित्यमेषोऽनिरुद्धनामा पर्यटति भ्रमति ॥ १९ ॥
मा०टी०-विश्वमय स्थपर संवत्सर चक्रके द्वारा छंदोंको सात घोडे बनाकर यह सदा भ्रमण करते हैं ॥ १९॥ अथास्य स्वरूपं ब्रह्मण उत्पत्तिं चाहत्रिपादममृतं गुह्यं पादोऽयं प्रकटोऽभवत् ॥ सोऽहंकारं जगत्सृष्टये ब्रह्माणमसृजत्प्रभुः ॥ २० ॥
, पयत्येषवशी सदा इति पाठान्तरम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com