________________
ध्यायः १२ ]
संस्कृत टीका - भाषाटीकासमेतः
( १९१ )
मा०टी०-जगत के उपादानरूपसे प्रकृति के अन्तर्गत हैं, सङ्कषण बहि आर अन्तस्थ सर्व गत हैं, यह सृष्टिकी आदि के समय एकार्णवादिम अपन वीर्यको निक्षेप करते हैं ॥ १३ ॥ ततः किमत आह
तदण्डमभवद्धैमं सर्वत्र तमसा वृतम् ॥
तत्रानिरुद्धः प्रथमं व्यक्तीभूतः सनातनः ॥ १४ ॥
तत्तच्छक्तिमिलितं जलं हैमं सौवर्णमण्डं गोलाकार सर्वत्र बहिरन्तश्चान्धकारेणावृतममत्रत् । अन्धकारसहिताकाशे सुवर्णाण्डमजनीत्यर्थः । तत्र सुवर्णाण्डे मादावनिरुद्धः सनातनो नित्यो वासुदेवांशसंकर्षणोंऽश रूपत्वाद्व्यक्ती भूतोऽभिव्यक्तः । नतूत्पन्नः । सत्कार्यवादाभ्युपगमात् । यथा तिलेभ्यस्तैलं सदैवाभिव्यक्तं न तत्पनम् ॥ १४ ॥
मा० टी०-वह जल अन्धकार से छाये हुए सुवर्णका अंडरूप बनगया । तिसमें प्रथम सनातन अनिरुद्ध व्यक्त हुए । १४ ॥ यथास्याभिधान्तराणि लोकसुज्ञानार्थमाह
हिरण्यगर्भो भगवानेष च्छन्दास पठ्यते ॥ आदित्यो ह्यादिभूतत्वात्सूत्या सूर्य उच्यते ॥
ए संकर्षणांशोऽनिरुद्ध भगवान् षड्गुणैश्वर्यसम्पन्नश्छन्दासे वेदे हिरण्यगर्भः सुवः र्णाण्डमध्यरूपगर्भे स्थितत्वात्पठ्यते निरूप्यते । वेदेऽस्य हिरण्यगर्भ इति प्रसिद्धमभिधान्तरमित्यर्थः । हि निश्वयेनादित्यः प्रथममभिव्यक्तत्वादुच्यते । प्रसृत्या अस्माजगतोऽभिव्यक्तनयाय निरुद्धः सूर्य उच्यते । " हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् ” इति श्रुतिः ॥ १५ ॥
P
मा० टी० - दमें इनको हिरण्यगर्भ कहते हैं, आदिमें थे इसलिये आदित्य, और सृष्टिके अर्थकारण सूर्य कहते हैं ॥ १५ ॥
यस्य रूपं स्थितिं चाह
१५ ॥
परं ज्योतिस्तमःपारे सूर्योऽयं सवितति च ॥
पति भुवनान्येव भावयन्भूतभावनः ॥ १६ ॥
अयमनिरुद्धः सूर्यनामकः सविता । इति नाम्ना । चः समुच्चये । प्रसिद्धः तमःपारेऽन्धकारस्य विरामे परमुत्कृष्टं ज्योतिस्तेजोरूपम् । अन्धकारनाशक इति तात्पर्यार्थः । " आदित्यवर्णं तमसस्तु पारे" इतिश्रुतिः । एष सविता भूतभावनः प्राण्युत्पत्तिस्थितिसंहारकारको भुवनानि वक्ष्यमाणानि भावयन्प्रकाशयन्पयेति । सुवर्गाण्डमध्ये सदा भ्रमति ॥ १६ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com