________________
(१९०) ससिद्धान्तः
[ द्वादशोऽभा०टी०-मच्छा तो गुप्त अध्यात्मतत्त्वको कहता हूं तुम एकान्तचित्तसे श्रवण करो। ऐसी कोई वस्तु नहीं है जो हम अतिमक्तों को न देसकें ॥ ११ ॥ गुह्यं वक्ष्यामीति यदुक्तं तदाह
वासुदेवः परं ब्रह्म तन्मूर्तिः पुरुषः परः ॥
अव्यक्तो निर्गुणः शान्तः पञ्चविंशात्परोऽव्ययः ॥ १२ ॥ वसत्यस्मिञ्जगत्समस्तमसो वा जगति समस्ते वसतीति वसतेरुणि वासुः । देव. नादासनाद्देवः । वासुश्चासौ देवश्चेति वासुदेवः । तथाचोक्तम् “सर्वत्रासौ समस्तं च वसत्यत्रति वै यतः । अतोऽसौ वासुदेवाल्यो विद्वद्भिः परिगीयते ।।" इति । नतु वसुदेवस्यापत्यमिति विग्रहः । तस्य जगत्कारणतानिरूपणावसरेऽनुपयोगात् । अस्मत्पक्षे पुनरुपादाने कार्यस्याधारतया कार्येवोपादानस्यानुस्यूततया वा स उपयुक्त एव तथाचोक्तं श्रुतौ ईशावास्यमिदं सर्वम्' इत्यादि । भागवते च । “अजनि च यन्मयं तदविमुच्यामयं नृभवेत् " इति । जीवानामापे ब्रह्मात्मकतया तद्वारणाय परनिति सर्वोतममित्यर्थकम् । “यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ ॥ इति स्मृतेः । तन्मूर्तिस्तस्य वासुदेवस्य मृतिरंशः । इदं विशेषणं संवक्ष्यमाणस्य सङ्कर्षणस्य । विन्मूर्तिरिति पाठस्तु प्रामादिकः । वासुदेवः सङ्कर्षण इत्यस्माद्वासुदेवात्सङ्कर्षण इत्यस्यार्थस्य विवक्षितस्याप्रतीतेः । अव्यक्त इत्यतीन्द्रिय इत्यर्थः । तथा च श्रुतिः। “न तं विदाय य इमा जजाना-याष्माकमन्तरं बभूव । नाहारण प्रावृता जल्प्या चासुतृप उक्थशासश्चरन्ति ॥ न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् " इति । अव्यक्तत्वे हेतुर्निर्गुण इति । शान्तः पडूमिरहितत्वात । पंचविंशात्परः। षोडशविकृतयः सप्त प्रकृतिविकृतयो मूलप्रकृतिश्चेति चतुर्विशतितत्त्वानि पञ्चविंशस्तु जीवस्तस्मात्पर इत्यर्थः । पञ्चविंशात्मक इतिपाठे जगदात्मक इति ॥ १२ ॥
माल्टो -वासुदेव, परब्रह्म, तन्मूर्ति परमपुरुष, अव्यक्त, निर्गुण, शान्त, मन्यय और पच्चीसवां वस्तुओंसे पर है ॥ १२ ॥ शुद्धस्य ब्रह्मणो जगत्कारणत्वासम्भवादाह
प्रकृत्यन्तर्गतो देवो बहिरन्तश्च सर्वगः ॥
सङ्कर्षणोऽयं सृष्ट्वादा तासु वीर्यमवासृजत् ॥ १३ ॥ प्रकृत्यन्तर्गतो मायोपहितो बहिरन्तश्च सर्वगो जगदुपादानत्वात् । एतानि सर्वाणि विशेषणानि संकर्षणस्य वासुदेवांशस्यापि वासुदेवात्मकतावसानेन बोध्यानि । वासुदेवांशात्मकः सङ्कपणः प्रथमं जलानि निर्माय । तास्वप्सु वोर्य शक्तिविशेषम् । अवासजविक्षेप ॥ १३ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com