________________
संस्कृतटीका - भाषाटीकासमेतः ।
ध्यायः ९२. ]
अथास्य प्रश्नमुपसंहरति
एतं मे संशयं छिन्धि भगवन् भूतभावन ॥ अन्यो न त्वामृते छेत्ता विद्यते सर्वदर्शिवान् ॥ ९ ॥
हे भगवन् षड्गुणैश्वर्यसम्पन्न । सर्वबोधकेति तात्पर्यार्थः । भूतभावन भूतस्याdiaकालस्य भावना विचारो यस्य । भूतस्योपलक्षणाद्वर्तमान भविष्यतोरपि कालज्ञेति सिद्धोऽर्थः । त्वं मे मम । एतमुक्तं संशयम् । जात्यभिप्रायेणैकवचनम् । तेन मत्कृतान् प्रश्नानित्यर्थः । छिंधि छेदय । नन्वहमिदानीमेतदुक्त्यै वक्तुं न शक्नोम्यन्यस्मात्संशयान् दूरीकुर्वित्यत आह- अन्य इति । त्वामृते विना । अन्यः सर्वदर्शिवान् सर्वद्रष्टा । सर्वज्ञ इत्यर्थः । छेत्ता संशयापनोदकः । न विद्यते नास्ति । तथा चैतावत्कालपर्यंतं यथोक्त तथान्यदपि कृपया वक्तव्यमिति भावः ॥ ९॥
(१८९
भा० टी० - हे भूतभावन भगवन् ! मेरे यह समस्त सन्देह दूर कीजिये आपके सिवाय सर्वदर्शी और संशयका छेदन करनेवाला कोई भी नहीं है ॥ ९ ॥
अथ मुनीन्प्रति मुनिर्मयासुरोक्त प्रश्नानुवादं कृत्वा सूर्यांशपुरुषो मयासुरं प्रति पुनर्वद: ति स्मेत्याह
इति भक्तोदितं श्रुत्वा मयोक्तं वाक्यमस्य हि ॥
रहस्यं परमध्यायं ततः प्राह पुनः स तम् ॥ १० ॥
स सूर्याशपुरुषः । इति पूर्वोक्तम् भक्त्याराध्यज्ञानेन । उदितमुत्पन्नम् । मयेन कथितं वचनं श्रुत्वाऽऽकर्ण्य । पुनर्द्वितीयवारं ततः पूर्वार्धोक्त्यनन्तरं तं मयासुरं प्रति परं द्वितीयमध्यायं ग्रंथम् । ग्रन्थस्योत्तरखण्डमित्यर्थः । अस्य ग्रन्थपूर्वखण्डस्य हि निश्वयेन रहस्यं गोप्यत्वेन तत्त्वभूतं प्राह । प्रकर्षेणावददित्यर्थः ॥ १० ॥
मा०टी०-भक्तिभावले कहे हुए मयके वचन सुनकर सूर्यांश पुरुष फिर परमध्यायर हस्थ कहते हुए || १० ॥
अथ सूर्यांश पुरुषवचनानुवादे सूर्याशपुरुषो मयासुरं प्रति मदुक्तं सावधानतया श्रोतव्यमित्याह-
शृणुष्वैकमना भूत्वा गुह्यमध्यात्मसञ्ज्ञतम् ॥
प्रवक्ष्याम्यतिभक्तानां नादेयं विद्यते मम ॥ ११ ॥
यतः कारणात् । अतिभक्तानामत्यन्तमद्भजनकारकाणां भवादृशां मम सूर्यस्य पुरुघस्य । अदेयमंदातव्यं वस्तु न विद्यते । अतः कारणादहं त्वां प्रति गुह्यं गोप्यमध्यात्मसंज्ञितमध्यात्मज्ञानसञ्ज्ञं यत्प्रवक्ष्यामि कथयिष्यामि तत्वमेकमना एकस्मिन्मदुक्ते मनो विद्यते यस्यासौ भूत्वा शृणुष्व श्रोत्रद्वारात्मनः संयोगेन प्रत्यक्षं कुर्वित्यर्थः ॥ ११ ॥
A
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com