________________
(१८८) सूर्यसिद्धान्तः
[ द्वादशोऽक्तम् । आनयने युक्त्यप्रतिपादनादिति भावः । यद्यपि पूर्व होरेश्वरानयनं नोक्तमिति तत्पश्नोऽसंगतस्तथापि लोके प्रसिद्धतरो होरेश्वरस्त्वया किमर्थं नोक्त इति तत्प्रश्नतात्पमिति ध्येयम् । ग्रुगणो नक्षत्रसमूहसग्रहो ग्रहसहितः कथं केन प्रकारेण पर्येति भ्रमति । नक्षत्राणि ग्रहाश्च केन प्रयुक्ताः सन्तो भूम्यभितो भ्रमन्तीत्यर्थः । अथैषामन्तरिक्षावस्थानोप प्रश्नमाह-अयमिति । सग्रहो भगणो दृशमानः किमाश्रयः क आधारो यस्येति । विनाधारमन्तरिक्षावस्थानं न सम्भवतीत्यर्थः ॥ ६॥
मा०टी०-भगण किस प्रकारसे ग्रहादिके साथ प्रदाक्षणा करते हैं और उनका आश्रय क्या है ? ॥६॥ ननु कक्षा एवाधाराः पूर्वं तत्रैव स्वमार्गगा इत्युक्तेरित्यतः कक्षाणां प्रश्नचतुष्टः
यमाह
भूमेरुपर्युपऍाः किमुत्सेधाः किमन्तराः ॥
ग्रहक्षकक्षाः किम्मात्राः स्थिताः केन क्रमेण ताः ॥ ७॥ भूमेः सकाशादूर्ध्वमुच्चाग्रहक्षकक्षाग्रहनक्षत्राणामाकाशे मार्गाः किमुत्सेधाः किया नुत्सेध उच्चता यासां ताः । भूमेः सकाशाद्रहनक्षत्रमार्गकक्षाः कियदन्तरेण सती त्यर्थः। किमन्तराः कियदन्तरालं यासां ताः । उत्तरोत्तरमुच्चा अपि परस्परं तासा कियदन्तरालमित्यर्थः । किम्मात्राः किमात्मिकाः । किंस्वरूपाः किंप्रमाणा वा । ता ग्रहनक्षत्रकक्षाः केन क्रमेणाधिष्ठिताः सन्ति । पूर्व कस्तदुत्तरं के इत्यादिक्रमो न ज्ञात इत्यर्थः ॥७॥ . __ भा०टी०-पृथिवीसे ग्रहोंकी कक्षा कितनी ऊंची है ? परस्परमें अन्तर कितना है ? परिमाण क्या है ? और वह किस प्रकारसे स्थित है ? ॥ ७ ॥ अथानुभवप्रश्न तत्प्रसंगात्सूर्यकिरणप्रचारप्रश्नं च पूर्वोक्तमानानां प्रश्नद्वयं चाह
ग्रीष्मे तीव्रकरो भानुर्न हेनन्ते तथाविधः ॥ .
कियती तत्करप्राप्तिर्मानानि कति किंच तेः ॥ ८॥ ग्रीष्मौ सूर्यो यथा तीक्ष्णकिरण उष्णकिरणस्तथाविधस्तादृशो हेमन्ते न भव तीति किम् । सूर्यस्य किरणानां प्राप्तिर्गमनपद्धतिः कियती कियत्प्रमाणा । मानानि नाक्षत्रसावनचान्द्रसौरादीनि पूर्वोक्तानि कति कियति । उपक्रम एव संक्षेपेण मानान्यु. क्तानीति तत्तत्त्वं सम्यड्न ज्ञातमित्यर्थः । तैर्मानैः किं प्रयोजनम् । चः समुच्चयार्थः । प्रत्येकमन्वेति ॥ ८॥ - माल्टी०-ग्रीष्ममें सूर्यकी किरणे तीव्र होती है, और हेमन्त में तैसी नहीं होती, तिनकी करप्राप्तिका नियम क्या है ? कितने प्रकारके मान हैं ? मोर तिनका प्रयोजन क्या है? ||८||
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com