________________
( १८२) सूर्यसिद्धान्तः
[ एकादशीमा०टी०-जितनी देरतक सूर्य और चंद्रमण्डलका कोई अंश एकस्थान में हो तो सर्व कर्म विनाशकारी इस पातका सम्मव होता है ॥ १७ ॥ नन्वयं केवलं मंगलनाशको न शुभकारक इत्यत आहस्नानदानजपश्राद्धव्रतहोमादिकभिः ॥
प्राप्यते सुमहच्छ्रेयस्तत्कालज्ञानतस्तथा ॥ १८॥ व्रतं स्वाभिमतदेवताराधनम् । आदिपदाधर्मातरम् ।। इत्यादि पुण्यक्रियाभिस्तत्कालकृताभिः। सुतरामुत्कृष्टं कल्याण मनुष्यैलभ्यते । तस्य पातस्य स्थित्यादिकालज्ञानात् । तथा समुच्चये । तेन महच्छ्यः प्राप्यत इत्यर्थः ॥ १० ॥
भा०टी०-पातकालको जानकर स्नान, दान, जप, श्राद्ध, व्रत होमादि कार्य करनेसे महान् श्रेष्ठफळ प्राप्त होता है ।। १८॥ अथ पातविशेषमाह
खीन्दोस्तुल्यता कान्त्योर्विषुवत्सन्निधौ यदा ॥ द्विवेद्विस्तदा पातः स्यादभावो विपर्ययात् ॥१९॥ यदा यस्मिन्काले विषुवन्निकटे क्रान्त्यभाषामन्ने। अत्र चन्द्रस्य स्पष्टनात्यभावासनत्वं ध्येयम् । सूर्यचन्द्रयोः क्रांत्योः समता भवति । तदा तस्मिंस्तदासनकाले स्थूलरूपे क्रांत्यभावादुभयत्र द्विवैधृतव्यतीपातमेदवयात्मकः पातः । द्विः प्रत्येकं द्विधा वार. दयं भवेत् । विपर्ययादुक्तव्यत्यासात् । चांद्रायणसन्निधिनिक्टे तयोः क्रांत्योस्तुल्यत्व इत्यर्थः । अत्रातुल्यत्वं सूर्यक्रांतितश्चन्द्रस्पष्टक्रांतेन्यूनत्वमेव नाधिकत्वमिति ध्येयम् । अमावः क्रांतिसाम्यरूपपातस्य तस्मिन् स्थूलकाले किञ्चिन्मितेऽनुत्पत्तिः स्यात् । एतेन ‘स्वायनसन्धाविन्दोः क्रांतिस्तत्कालभास्करक्रांतेः। ऊना यावत्तावक्रांत्योः साम्यं तयोर्नास्ति ॥” इतिभास्कराचायक्ति संगच्छते । तत्साधनं तु प्रथमागतचापान्तरादिष्टांशाअन्द्र युता हीना इति प्रत्येकमसकृत्क्रियया द्विधापातकालस्य ज्ञेयम् ।। अत्रोपपत्तिः । व्यतीपाते विषुववृत्तादुभयस्तुल्यान्तरेण सूर्यचंद्रयोवस्थितिकालेऽपि पातत्वम् । क्रांतिसाम्यादेव वैधृतेऽप्येकाहोरात्रवृत्तस्थत्वकाले पातत्वम् । एवमेव वियोगव्यतीपातधृतयोरप्येकाहोरात्रवृत्तस्थत्वे विषुववृत्तादुभयतस्तुल्यान्तरावस्थितौ च, पातत्वम् । क्रांतिसाम्यादियुक्तगोलसिद्धं चन्द्रगोलसन्धिनिकटे प्रत्यक्षम् । अभावोपपत्तिस्तु । चन्द्रस्य स्वायनसन्धौ तत्स्पष्टक्रांतितुल्यं परमं विषुववृत्तादक्षिणोत्तरं गमनं भवत्यस्मादने पृष्ठे वा विक्षेपवृत्तेभ्रंमतश्चन्द्रस्य क्रांतिन्यूनैव सम्भवत्यतः स्वायनसन्धिस्थचन्द्रकालिक सर्यक्रांतिः स्वायनसंधिस्थचन्द्रस्पष्टकान्तरधिका तदेष्टचन्द्रकान्तेन्यूनत्वेनाधिकसूर्येष्टका- . त्या समत्वानुत्पत्तिः । सूर्यस्य चन्द्राल्पगमनत्वात् क्रांत्यपचयस्यापि चन्द्रकांत्यपच
कर्मसु दातवापाठः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com