________________
ध्यायः ११. ]
संस्कृत टीका- भापाटीकासमेतः ।
( १८१ )
मा० टी० - सूर्य और चन्द्रमा के मान योगार्द्धको ६० से गुणकरके जिसके मुक्तयन्तरसे भाग करनेपर स्थित्यर्द्ध दण्ड होगा ॥ १४ ॥ अथ पातस्यादिमध्यांत कालानाह
पातकालः स्फुटो मध्यः सोऽपि स्थित्यर्धवर्जितः || तस्य सम्भवकालः स्यात्तत्संयुक्तोऽन्त्यसंज्ञितः ॥ १९ ॥ स्थिरीकृतार्धरात्रेत्यादिना स्पष्टः पातकाल: क्रांतिसाम्यस्य काल आनीतो म ध्यसञ्ज्ञो ज्ञेयः । स मध्यकाल आनीतस्थित्यर्धेन हीनस्तस्य पातस्य सम्भवकाल आरम्भकालः । अपिः समुच्चये । तत्संयुक्तः स्थित्यर्धयुक्तो मध्यकालो ऽन्त्यसञ्जितः पातो भवति । पातस्यान्तकालो भवतीत्यर्थः । अत्रोपपत्तिश्चन्द्रग्रहणस्पर्शमोक्षवत्स्पष्टा । स्वरूपं तु प्राग्व्यक्तीकृतम् ॥ १५ ॥
मा०टी० - पातकाळी मध्य है । तिससे स्थित्यई त्रियोग करनेपर पातका सम्वतकाल और स्थित्यर्द्ध योग करने से अन्त्यकाल होता है ॥ १५ ॥
अर्थतज्ज्ञानस्य प्रयोजन किमित्यतः पातस्थितिकालो मंगलकृत्ये निषिद्ध इत्याहआद्यन्तकालपा मध्यः कालो ज्ञेयोऽतिदारुणः ॥ प्रज्वलज्ज्वलनाकारः सर्वकर्मसु गर्हितः ॥ १६ ॥
पातस्यारम्भसमाप्तिसमय योरन्तरालवर्ती समयः अत्यन्तं कठिनः । सर्वषु मंगलकृत्येषु निन्दितो ज्ञेयः । अन तुगर्भविशेषणमाह-प्रज्वलज्ज्वलनाकार इति । देहोप्य -- मानाग्निस्वरूपः । तथाच का मंगलकृत्यं भस्मावशेषं स्यादिति भावः ॥ १६ ॥
भा० टो०- सम्भवका से अन्त्यतक काल अतिदारुण है; सो देदीप्यमान अग्निस्वरूप और समस्त शुभकर्मोंमें निइिन है || १६ ॥
ननु पातस्य क्रांतिसाम्पत्येन सूक्ष्मकालरूपत्वादागतमध्यकाल एव सूक्ष्मः शुभकः सुनिन्दितो न पातस्थिनात्मकस्थलकालः क्रान्तिसाम्याभावादित्यत आहएकायनगतं यदकेंन्द्रोर्मण्डलान्तरम् ॥
सम्भवस्ता वदेवस्य सर्वकर्मविनाशकृत् ॥ १७ ॥
सूर्यचन्द्रयोर्मण्डलान्तरं प्रत्येकं बिम्बैकदेशरूपं यावद्यत्कालपर्यंतमेकायनगतं तुल्यमार्गस्थितं भवति । तावत्तत्कालपर्यंतम् । एवकारो न्यूनाधिकव्यवच्छेदार्थकः । अस्य पातस्य । सकलशुभकर्मणामाचरितानां नाशकारी । सम्भव उत्पत्तिः । स्थितिरिति याचत् । न क्रान्तिसाम्यमात्रं स्थितिरलक्ष्यत्वात् । तथा च विषुवद्वृत्तादुभयत एकत! वा चंद्रार्कविम्बेकदेशयोः कयोरपि तुल्यान्तरेण यावदवस्थानं केन्द्रावस्थानाभावेऽपि बिम्बसम्बन्धात्पातस्थितिः । अतएव " तावत्समत्वमेव क्रांत्योर्विवरं भवेद्यावत् । मनिक्यार्धादूनं साम्याद्विम्बैकदेशजकांत्योः ॥” इति भास्कराचार्योक्तं युक्ततरमिति भावः ॥ १७ १ एककाष्ठागतम् इति पाठान्तरम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com