________________
ध्यायः १९ ।
संस्कृतटोका - भाषाटीकासमेतः ।
( १७७ )
अथ गतैष्यकालानयनं विवक्षुः प्रथमं स्पष्टक्रांतिसा म्यानयनप्रकारं श्लोकत्रयेणाह -- कान्त्योज्य त्रिज्या भिन्ने परक्रान्तिज्ययोद्धृते ॥ तच्चापान्तरम वा योज्यं भाविनि शीतगौ ॥ ९ ॥ शोध्यं चन्द्राद्वते पाते तत्सूर्यगतिताडितम् ॥ चन्द्रभुक्त्याहृतं भानौ लिप्तादि शशिवत्फलम् ॥ १० ॥ तद्वच्छशाङ्कपातस्य फलं देयं विपर्ययात् ॥ कर्मैतदसकृत्तावद्यावत्कान्ती समेतयोः ॥ ११ ॥ सूर्यचन्द्रयोः साधितक्रांत्यो कार्ये ते त्रिज्यया गुणिते । परक्रांतिज्यया परंमा परमज्या तु सप्तरंध्रगुणेंदवः इति पूर्वोक्तपरमक्रांतिज्ययेत्यर्थः । भक्ते । तयोः फलयोधनुषी कार्ये । चंद्रस्य यदा त्रिज्याधिकं फलं तदोक्तप्रकारेणाधनुषोऽसंभवात्रिज्यया नवत्यंशास्तदेष्टज्यया कइत्यनुपातेन धनुः कार्यम् अथवा त्रिज्यातो यदधिकं तदुक्तकमधनुषा युक्ताश्चतुःपञ्चाशच्छतकला धनुः स्यादिति ध्येयम्: । तयोरन्तरमर्धम् अन्तरार्धम् । वा विकल्पार्थकः । अथवा विषयव्यवस्थार्थकः । सा तु यदान्तरमल्पं तदान्तरम् । यदा तु बह्नन्तरं तदान्तरार्धं ग्राह्यमिति । भाविनि भविष्य - त्पाते । चन्द्रे राश्यात्मके । तत्कलात्मकं युक्त कार्यम् । गते पाते सति चन्द्रादीनं कार्य चन्द्रः स्यात् । सूर्यसाधनमाह - तदिति । चन्द्रसम्बन्धिसंस्कृतफलम् । स्पष्टसूर्यगत्या गुणितं स्पष्टचन्द्रगत्या भक्तं फलं कलादिकं चन्द्रवत् । चन्द्रयुतहीनक्रमेण सूर्ये युतहीनं कार्य सूर्यः स्यात् । चन्द्रपातसाधनमाह - तद्वदिति । चन्द्रपातस्य फलं कला - दिकम् । तद्वत् । चन्द्रफलं पातगत्या गुणितं स्पष्टचन्द्रगत्या भक्तं विपर्ययात् व्यत्या सात् । देयं संस्कार्यम् । चन्द्रयुतहीनक्रमेण चन्द्रपाते हीनयुतं कार्यम् । चन्द्रपातः स्यात् । उक्तक्रियातिदेशमाह- कर्मेति । एतत् उक्तं कर्म गणितक्रियारूपम् । असकृत् अनेकवारम् । साधितसूर्यात् । सूर्यकान्ति प्रसाध्य साधितचन्द्रपाताभ्यां चन्द्रस्पष्टकान्ति प्रसाध्य ताभ्यां क्रान्तिभ्यां क्रान्त्योज्ये इत्यादिना चापान्तरं तदर्धे वा तत्क्रान्तिभ्यामवगतगतैष्यपातलक्षणवशात् द्वितीयचन्द्रे हीनयुतं तृतीयचन्द्रः स्यात् । आद्य सूर्य चन्द्रगतिभ्यामवगतसूर्यपातफलं द्वितीयसूर्यपातयोर्यथोक्तं संस्कृतं तृतीयसूर्यपातौ । एभ्यः सूर्यचन्द्रपातेभ्यः सूर्यचन्द्रक्रांतिभ्यां साधिताभ्यां चापान्तरं तदर्धे वा तृतीयचन्द्रे तत्क्रान्त्यवगतगतैष्यपातवशात्संस्कृतं चतुर्थचन्द्रः स्यात् । आद्यसूर्यचन्द्रगत्यव - गतस्वफलं संस्कृतौ तृतीय सूर्यपातौ चतुर्थसूर्यपातौ स्तः । एवमेभ्यः पंचमाश्चन्द्रसूर्य: पाता उक्तरीत्या साध्या इत्युत्तरोत्तरं मुहुः साध्या इत्यर्थः । अवधिमाह - तावदिति । यावद्यदवधि तयोः सूर्यचन्द्रयोः क्रान्ती स्पष्टक्रान्तितुल्ये स्तस्तावत्तदवधि क्रिया कार्य
१२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com