________________
( १७६ )
सूर्यसिद्धान्तः
[ एकादशोऽचकारात्स्पष्टक्रान्तिः सुर्यक्रांतेः सकाशादधिकोना वा स्यात्तहत्यर्थः । वामम् । उक्त गतष्यक्रमेण वैपरीत्यम् । एष्यगतत्वं पातस्य भवतीत्यर्थः । अथ चन्द्रस्य विशेषमाह । पदान्यवमिति । चन्द्रस्य स्पष्टक्रांतिक्रियायाम् । चेद्या है | चंद्रस्य विक्षेपसंस्कृतकेवलक्रांतिर्विक्षेपाद्भिन्नदिक्काद्विशुध्यति हीना भवति । क्रान्तिवर्जितविक्षेपरूपास्पष्टक्रान्तिर्यदि स्यात्तदत्यर्थः । पदान्यत्वं राश्यादिचंद्रा धिष्ठितपदभिन्नपदस्थत्वं चन्द्रस्य ज्ञेयम् । सायनराश्यादिना समपदस्थस्य चन्द्रस्य विषमपदस्थत्वम् | साय नराश्या दिना विषमपदस्थस्य चन्द्रस्य समपदस्थत्वं तत्पदसम्बधात्स्पष्ट क्रान्तिर्ज्ञेयेत्यर्थः । अत्रोपपत्तिः । विषमपदे क्रांतिरुपचिता समपदेऽपचिता । अतः सूर्यकांतर्विषमपदस्थेंदुकान्तिरधिका तदाग्रे सुतरामधिकत्वाद्रविक्रान्त्युपचयस्याल्पत्वाच्च न्यूनया रविक्रान्त्या चंद्रकांतेः समत्वमग्रिमकाले न भवति । अतः पूर्वकाले चंद्रकांत न्यूनत्वाद्रविक्रांत्यपचयस्यान्यत्वाच्च तत्क्रांतिसाम्यं जातमित्यनुमितम् । एवं समपदस्थेन्दुक्रांतिरूना तदा सूर्यकांतेन्यूना तदाग्रे सुतरां न्यूनत्वात्तत्साम्याभावः । पूर्वं त्वधिकत्वात्तत्समत्वं जातमिति ज्ञातम् । यदा तु सूर्यकांतेर्विषमपदस्थे दुकान्त्याधिकत्वेन तत्क्रांतिसाध्यं भवति पूर्व न्यूनत्वे तदभावात् । एवं सूर्यकांतेः समपदस्येंदुकांतिरधिका तदा न्यूनत्वेन तत्साम्यं भवति । अतएव तत्तुल्यत्वे वर्तमान इति । मत्र चंद्रस्य विक्षेपवृत्तं विषुवद्वृत्ते लग्नं यत्र तत्र स्पष्टक्रांतरभावाद्गोलसन्धिः । तस्मात् त्रिमांतरे विक्षेपवृत्तेऽयनसंधिः । स्पष्टक्रांतिस्तदंतराल उपचितापचितायनसंधिस्थक्रांत्यनधिका । यदा चंद्रक्रांतिमध्यमा शरभिन्नदिक्का शरादल्पा तदा शराच्छोधनेन स्पष्टक्रांतिर्मध्यमक्रांतिसम्बंधपदभिन्नपदसंबधा भवति । अतः “ पदान्यत्वं विधोः क्रांतिविक्षेपाच्चेद्विशुध्यति ” इति सम्यगुक्तम् । भास्कराचार्योक्तं च "चक्रे चक्रार्धे च व्ययनशेऽर्कस्य गोलसंधिः स्यात् । एवं त्रिभे च नवभेऽयनसंधिर्व्ययनतभागेऽस्य ॥ अयनांशोनितपाताद्दोः कोटिज्ये लघुज्यकोत्थेये । ते गुणसूर्यैरश्वैर्गुणिते भक्ते कृतैः सूर्यैः अयनांशोनितपाते मृगकक्यादिस्थिते हि षड्रामैः । कोटिफलयुतविहीन बहुफलं मक्तमाप्तांशैः ॥ मेषादिस्थे गोलायनसंधी भास्करस्योनौ । तौ चंद्रस्य स्यातां तुलादिषट्कस्थिते तु संयुक्तौ ॥ गोलायनसंध्यन्तं पदं विधोरत्र धीमता ज्ञेयम् । रविगोल वदस्पष्टस्पष्टाक्रांतिः स्वगोलदिक्छशिनः ॥” इति पदज्ञानम् । अनेनैव प्रकारेण चंद्ररूपटक्रांतेः पदं ज्ञेयं विक्षेपवृत्तसम्बंधत्वात् । न साधारणपदज्ञानेन स्पष्टक्रांतेः क्रां तिवृत्तसंबंधाभावात् अन्यथा पदज्ञानासम्भवापत्तेः । एतदङ्गीकारे पदान्यत्वमित्याद्यर्ध व्यर्थमपि भगवता तदर्धेनैतादृशं पदं ज्ञापितमन्यथा तदनुक्त्यापत्तेरिति दिक् ॥७॥८॥
भा०टी० - अनपद में स्थित चंद्रमाकी विक्षेप-संस्कृत क्रान्ति रविक्रान्तिले जधिक होनेपर पात गत हुआ है | अल्प होने पर भागी है । युग्मपद में तिससे विपरीत है । जो विक्षेपसे क्रांत अलग करनी हो चंद्रमा और पदको प्राप्त करता है ॥ ७ ॥ ८ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
•
www.umaragyanbhandar.com