________________
अन्यायः ९१. ] संस्कृतटीका - भाषाकासमेत: 1
एकादशोऽध्यायः ।
अथ पाताध्यायो व्याख्यायते । तत्र भेदद्वयात्मक पातस्य सम्भवं विवक्षुः प्रथमः वैधृतसंज्ञापातस्य सम्भवमाह
( १७३ )
एकायनगतौ स्यातां सूर्याचन्द्रमसौ यदा ॥ तद्युतो मण्डले क्रान्त्योस्तुल्यत्वे वैधृताभिधः ॥ १ ॥
सूर्यचन्द्र "सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्" इतिश्रुत्युक्तप्रयोगः । एकायनगतौ । अभिन्नदक्षिणोत्तरान्यतरायनस्थौ भवतस्तत्र यदा यस्मिन् काले तद्युतौ सूर्यचन्द्रयोर्भाद्योयोगे मण्डले द्वादशराशिमिते सति तदा तयोः क्रान्त्योः समत्वे महापातरूपे वैधृतसंज्ञः पातो भवति ॥ १ ॥
आ०टी० - सूर्य और चन्द्रमा जब एक अयनमें होते हैं और दोनोंका स्पष्ट योग १२ राशिके प्रमाणका होता है और क्रान्तिकी समता होती है, तब वैधृतिपात होता है ॥ १ ॥ अथ व्यतीपातसंज्ञपातस्य सम्भवमाह
वीपरीतायनगतौ चन्द्रार्कौ क्रान्तिलिप्तिकाः ॥ समास्तद्वा व्यतीपातो भगणार्धे तयोर्युतौ ॥ २ ॥
चन्द्रार्कौ विपरीतायनगतौ भिन्नायनस्थौ भवतस्तत्र यदा तयोः सूर्यचन्द्रयोर्भाद्योयोगे भगणार्धे राशिषट्के सति तयोः क्रान्तिकलास्तुल्या भवन्ति तदा तस्मिन् काले व्यतीपातसंज्ञकः पातो भवति । अत्रोपपत्तिः । समक्रान्तिकालो महापातकालः । तत्र स्पष्टकान्त्योरतिवैलक्षण्योपचयापचय योर्नियमाभावाच्च समकालो दुर्लक्ष्य इति मध्यमक्रान्त्योः समत्वकालात्पूर्वमपरत्र वा शरवशेन शरसंस्कृतक्रान्तिसमत्वं भवतीति निश्चित्य वस्तु भूततत्कालज्ञानार्थैप्रथमं तदासन्नकालस्थमध्यमक्रांतितुल्यस्य ज्ञानमावश्यकं तत्तु सूर्यचन्द्रयोः क्रांतिसमत्वं भुजतुल्यत्वे सम्भवति भुजात्पन्नत्वात् । भुजसमत्वं सूर्यचन्द्रयोः षडराशिमितियोगे द्वादशराशिमितयोगे वा षड्राशिमितान्तरेऽन्तराभावे वा कुत एवमितिचेच्छृणु । तत्रान्तराभावे द्वयोस्तुल्यत्वेन भुजसाम्ये विवादाभावः । एवं षड्-. भान्तरेऽपीतरयोर्विषमपदस्थयोः समपदस्थयोर्वा क्रमेण पदगतैष्ययोस्तुल्ययोर्भुजत्वामित्यविवादः । षड्द्वादशराशियोगे तु तयोर्विषमसमपदस्थत्वात् क्रमेण तुल्यगतैष्यत्वेन भुजतुल्यत्वम् । रविगोलायनसन्धिस्ययोस्तु क्रांतिपरमभावत्व इति तत्रापि तदन्तरयोगयोः षडद्वादश श्योर्यथायोग्यसत्त्वात्क्रांतिसाम्यं सहजत एव । अत एकायनस्थयोभिन्नगोलस्थयोर्द्वादशराशियोग एकगोलायनस्थयोरन्तराभावे क्रांतिसाम्यम् । एवं भिन्नायनस्थयोरेकगोलस्थयोः षड्राशियोगे गोलभेदस्थयोः पराश्यन्तरे क्रांतिसाम्यमिति युतावित्युपलक्षणादन्तर इत्यपि ज्ञेयम् । नतु तद्युतौ मण्डले भगणार्धे तयोर्युता
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com