________________
( १७२ )
सूय्यासद्धान्तः-
[ दशमोऽध्यायः ]
शृङ्गं नतम् । तदितरदिकं शृङ्गमुन्नतम् | area भास्कराचार्यैरुक्तम् 'स्यात्तुङ्गभृंगं “वलनान्यदिक्स्थम् ' इति ॥ १४ ॥
भा० टी० - कोटी से दिसाधन करके दक्षिणोत्तर तिर्यक सूत्र के शेषभाग में चन्द्रमाका ऊंचा रंग दिखाने । सोही आकाशके चन्द्रमाका आकार है ॥ १४ ॥ - ननु सूर्योनचन्द्रस्य षड्भादिकत्व उक्तप्रकारेण चन्द्रविम्बाभ्यधिकं शुक्लमायाति तत्कथं युक्तं व्याघातादित्यतस्तदुत्तरं विशेषं चाह --
कृष्णे षड्भयुतं सूर्य विशोध्येन्दोस्तथासितम् ॥ दद्याद्वामं भुजं तत्र पश्चिमं मण्डलं विधोः ॥ १५ ॥
कृष्णपक्षे षड्ाशिभिः सहितमर्के चन्द्राद्विशोध्य । तथा लिप्ता नवशतभक्ता इति पूर्वप्रकारेण असितं श्याममानयम् । तथा च पूर्वोक्तं शुक्लानयनं शुक्लपक्ष एव चन्द्रशौ क्ल्यवृद्धिज्ञानार्थम् । कृष्णपक्षे तु शौक्ल्यह्रासात्कृष्णतावृद्धेः कृष्णानयनं युक्तं न शुक्लानयनम् । अतएव दर्शान्तमासस्य शुक्लकृष्णौ द्वौ पक्षाविति भावः । अथ कृष्णपरिलेखार्थ पूर्वोक्ते विशेषमाह - दद्यादिति । तत्र कृष्णपरिलेखाविषये वाम विपरतिं भुजं प्रागुक्तं दद्यात् । अर्कचिह्नादुत्तरं भुजं दक्षिणतो दक्षिणं भुजमुत्तरतो गणको दद्यात् । चन्द्रस्य मण्डलं पश्चिम दर्शयेत् । यथा शुक्लपक्षे चन्द्रमण्डलस्य पश्चिमभागे शौक्लयं तथा कृष्णपक्षे चन्द्रमण्डलस्य पश्चिमभागे कृष्णा भिवृद्धिं दर्शयेोदित्यर्थः । अत्रोपपत्तिः । कृष्णपक्षारम्भे सूर्यचन्द्रयोः षड्ाश्यन्तरम् । ततः षड्ाशिपर्यन्तं कृष्णाभिवृद्धिः । अतः पड्ाशियुतसूर्येण वर्जितचन्द्रात्पूर्वप्रकारेण कृष्णानयनं युक्तम् । अथ शुक्लशृङ्गं यत्र नतं तत्र कृष्णशृंगमुन्नतं यत्र चोन्नतं तत्र नतम् । अतः कृष्णपरिलेखार्थ भुजो विपरीतो देयः । तदपि कृष्णं पश्चिमभागादेवाभिवृद्धम् । अतः कणर खायां चन्द्रबिम्बान्तः पश्चिमस्थानाद्देयम् । ततः प्राग्वत्कृष्णशृङ्गोन्नतिरिति ॥ १५॥
मा० टी०-कृष्णपक्ष में चन्द्रस्पष्टसे ६ राशियुक्त सूर्य अलग करके : शुककी नाई अमित निर्णय करे राहुकी दिशा को बदलकर चन्द्रमण्डलको पश्चिम और असित दिखावे ॥ १५ ॥ अथाग्रिमग्रन्थस्यासंतित्वनिरासार्थमधिकारसमाप्तिं फक्किक्कयाह – चन्द्रोदयास्तयोः शृंगोन्नतिविषयत्वेनोक्तत्वादस्यामेवान्तर्भावो न स्वतन्त्राधिकारत्वमन्यथा ग्रहोदयास्ताधिकारे तदुक्त्यापत्तेः । एतेन चन्द्रोदयास्तयोः पौर्णमास्यधिकारत्वं पर्वतात निरस्तम् । तत्संज्ञायां प्रमाणाभावादन्यथामावास्याधिकारत्वस्यैव सुवचत्वापत्तेोरिति ध्येयम् ॥ रंगनाथेन रचिते सूर्यसिद्धांतापणे ॥ शृङ्गेोन्नत्याधिकारोऽयं पूर्णो गूढप्रकाश ॥ इति श्रीसकलगणकसार्वभौमबला लंदैवज्ञात्मजरंगनाथगणकावरचिते गूढार्थ - प्रकाशके शृङ्गेोन्नत्यधिकारः संपूर्णः ॥ १० ॥
इति शृङ्गोन्नत्यधिकारः ॥
दशवां अध्याय समाप्त 1
Shree Sudharmaswami Gyanbhandar-Umara, Surat
P
www.umaragyanbhandar.com