________________
(१६८) सूर्यसिद्धान्तः
[ दशमोऽसूर्यभुजस्याधिकत्वे तु सूर्यक्रां-ज्या-त्रि १.चं.कां. ज्या. त्रि. १ अक्षज्या. चं. शं. ११
दक्षिणोऽयं भुजः । इन्दोः शुद्धे भुज इत्युक्तत्वात् । अत्र नवसु पक्षेषु प्रथमपक्ष सूर्यचन्द्रक्रान्तिज्ययोरेकदिशयोरन्तरं त्रिज्यागुणितंः तत्सूर्यक्रान्तिसम्बद्धं चेत्तेनोनाक्षज्येन्दुशंकुघातो लम्बज्यामक्त इति । चंद्रक्रान्तिसम्बद्धं चेत्तेन युतस्तद्घातो लम्बज्याभक्त इति सिद्धम् । तत्राक्षांशानां दक्षिणत्वेनैकदिाश योगार्थ चन्द्रशेषे दक्षिणत्वं सूर्यशेषे उत्तरत्वं भिन्नादिशि वियोगाथै कल्पितम् । युक्तं चैतत् । सूर्यकान्त्यधिकत्वे सूर्याचान्द्रस्योत्तरत्वात् । शृंगोन्नतौ चन्द्रस्येव प्राधान्याच्च । द्वितीयपक्षे क्रान्तिज्ययोमि नादिशयोोंगेन तादृशेन तद्धातमूनं कृत्वा लम्बयया भजदित्यत्रापि योगस्याग्रऽ. न्तरार्थमुत्तरदिक्त्वं चन्द्रकान्तरुत्तरत्वेन दक्षिणस्थसूर्याचन्द्रस्य सुतरामुत्तरत्वाच्च । तृती. यपक्षे क्रान्तिज्ययोरेकदिशयोरन्तरे सूर्यसंबद्ध एव तादृशे तदध उन इति वियोगार्थमन्तरस्योत्तरदिक्त्वम् । द्वयोदक्षिणगोलस्थत्वेऽप्यधिकसूर्यान्यूनचन्द्रस्योत्तरत्वात् । चतुर्थपक्षे भिन्नदिशयोः क्रान्तिज्ययोर्योगे तादृशे तद्ध उन इति वियोगार्थ योगस्योत्तरदिक्त्वम् । चन्द्रस्योत्तरदिक्स्थत्वात् । पञ्चमपक्षे तु चतुर्थपक्षोक्तं तुल्यत्वात् । षष्ठपक्षे कान्तिज्ययोभिन्नदिशयोोगो दक्षिणस्तधे योगार्थ चन्द्रस्य दक्षिणगोलस्थत्वात् । सप्तमपक्षे क्रान्तिज्ययोरेकदिशयोरन्तरं सूर्यसम्बद्धं तदा तद्वधे योज्यमित्यन्तर दक्षिणम । द्वयोरुत्तरगोलस्थत्वेऽपि चन्द्रस्य न्यूनत्वेनार्काद्दक्षिणस्थत्वात् । अधिकत्वे तूत्तरं तद्वधे हीनमिति । अष्टमपक्षे क्रान्तिज्ययोरेकदिशयारेन्तरे चन्द्रसम्बद्ध उत्तरे तद्वध ऊनः । चन्द्रस्याधिकत्वेनोत्तरस्थत्वात् । अन्त्यपक्षे तु समदिशयोः क्रांति. ज्ययोरन्तरं सूर्यसम्बद्धं तद्वधे योज्यमिति दक्षिणम् । चन्द्रस्य न्यूनत्वेन दक्षिणस्थवादित्युपपन्नं प्रथमश्लोकोक्तम् । अत्र केनचित् कान्तिशब्देन चापात्मकक्रान्ती गृहीत्वा तत्संस्कारः कृतस्तस्य ज्या कार्येति व्याख्यातम् । तदुपपत्तिविरुद्धम् । नहि भुजसाथने चापात्मकक्रान्ती प्रयोजकत्वेनोपपन्ने । येन व्याख्योक्ता युक्ता । नवा क्रांतिज्यायोगवियोगाभ्यां. चापात्मकक्रान्तियोगवियोगयोये तुल्ये येनोक्तं संगतं स्यात् । अन्यथाक्षांशकान्त्यंशसंस्कारांशज्यां विनापि क्रान्तिज्याक्षज्ययोः संस्कारण नतांशज्यायाः साधनापत्तरिति दिक् । अथायं भुजस्त्रिज्यावृत्त इति लाघवात्तात्कालिके चन्द्रच्छायाकर्णमितवृत्ते स्वेच्छया साधितस्त्रिज्यावृनेऽयं भुजस्तदा चन्द्रच्छायाकर्णवृत्ते कइत्यनुपाते तेन क्रान्तिज्ययोः संस्कारमितमायं खण्डं चन्द्रच्छायाकर्णगुणामति सिद्धम् । त्रिज्यामितपूर्वगुणस्येदानीन्तनत्रिज्यामितहरस्य तुल्यत्वेन यो शाच । अथापरखण्डं चन्द्रशवक्षज्याघातात्मकं चन्द्रच्छायाकर्णगुणं त्रिज्याभक्तं कार्यम् । तत्र त्रिज्याद्वादशवातस्य चन्द्रशंकुभक्तस्य छायाकर्णत्वाच्छङ्कत्रिज्यामितयोगुणहरयोः प्रत्यकें नाशादक्षज्याद्वादशगुणेत्यपरं खण्डं सिद्धम् । द्वयारेकादीश योगो भिन्न
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com