________________
(१६६) सूर्यासद्धान्तः
[ दशमोऽतदानाक्षजीवायां शोध्या योज्या च दक्षिणा ॥ ७॥ शेष लम्बज्यया भक्तं लन्धो बाहुः स्वदिङ्मुखः॥
कोटिः शंकुस्तयोवंर्गयुतेर्मूलं श्रुतिभवेत् ॥ ८॥ सूर्यचन्द्रयोः स्पष्टकान्त्योदिंगैक्येऽन्तरम् । अन्यथा दिग्भेदे योगः । अत्र क्रान्तिशब्दः क्रांतिज्यापरो ज्ञेयः । उपपत्त्यविरोधात् । तज्ज्या साचासौ ज्या च संस्कारसिद्धाङ्कमिता ज्येत्यर्थः । अर्काचन्द्रो यत्र यस्यां दिशि तद्दिक्का दक्षिणोत्तरावासौ ज्या ज्ञेया । एकदिशि रविक्रांन्तितश्चन्द्रकान्तेरधिकत्वे सूर्याचन्द्रस्य क्रांन्तिदिक्स्थ. खेन ज्याक्रान्तिदिक् । उनत्वेऽर्काक्रांतिदिग्विपरीतदिक्स्थत्वेन क्रांतिभिन्नदिक् । भिन्नदिशि चन्द्रकांतिदिग्ज्या ज्ञेयेत्यर्थः । सा ज्या मध्याह्नेन्दुप्रभाकर्णसंगुणा यत्काले चन्द्रशृंगोन्नत्यर्थ साधितस्तत्काले मध्याह्नच्छायाकर्णवच्छायाकर्णश्चन्द्रस्य साध्यः । सत्वक्षांशचन्द्रस्पष्टक्रान्त्योरुत्तरदिशि वियोगो दक्षिणदिशि योगस्तदूननवत्यंशज्यया भक्ता द्वादशगुणितत्रिज्येति । उपपत्त्यनुरोधेन तु मध्याह्नपदं तत्कालपरम् । यत्काले चन्द्रस्तत्काले चन्द्रस्य ागतं दिनशेष वा प्रसाध्य त्रिप्रश्नाधिकारविधिना शंकुं प्रसाध्य च्छायाकर्णः साध्यः । अहोऽहोरात्रस्य मध्यं सूर्यास्तस्तत्कालिकः चन्द्रस्य च्छायाकर्णो वाऽयमेव भगवदभिप्रेतः । कथमन्यथा चन्द्रस्य शृंगोन्नती दृकर्मद्वयसंस्कारः शृंगोन्नती शशाङ्कस्यति प्रागुक्तः संगच्छते । दिनार्धातिरिक्तच्छाया साधनार्थमेव दृकमणोरुपयोगादन्यत्र शृंगोन्नतिगणित उपयोगाभावात् । स्पष्टकान्त्यैव च्छायाकर्णसिद्धेः । अत्रापि श्लोकपूर्वार्धोक्तमेवाक्षटकर्मसंस्कार्यम् । । तेन च्छायाकर्णेन गुणितेत्यर्थः । सा तादृशी ज्या यद्युत्तरा तदा द्वादशगुणितायामक्षज्यायां शोध्यान्तरिता । तेन द्वादशगुणिताक्षज्याधिका तादृशी ज्या । तदापि विपरीतशोधने न क्षतिः । यदि दक्षिणा तदा तस्यामेव युक्ता कार्या । चो व्यवस्थार्थकः । शेषे संस्कार स्वदेशलम्बज्यया भक्तं फलं भुजः प्राप्तः । स्वदिङ्मुखः स्वशब्देन संस्कारस्तस्य दिक्तस्यां मुखमग्रं यस्यासौ । संस्कारादिक इत्यर्थः । भुजस्य कोटिकर्णसोपेक्षत्वात्तावाह-कोटिरति । शंकुर्दादशांगुलः कोटिः । तयोर्भुजकोटयोर्गयोर्योगात्पदं कर्णः स्यात् । अत्रोपपत्तिः । “स्वानास्वशंकुतलयोः समभिन्नदिक्त्वे योगोन्तरं भवति दोरिनचन्द्रदोष्णोः । तुल्यांशयोविवरमन्यदिशोस्तु योगः स्पष्टो भुजो भवति चन्द्रभुजांश इन्दोः ॥ शुद्धे भुजे रविभुजाविपरीतदिक्कः ॥” इति सूक्ष्मभुजसाधनं भास्कराचार्येण सिद्धान्तशिरोमणा. वुक्तम् । तदुपपत्तिस्तु तट्टीकायां व्यक्ता । अनया रीत्या भुजसाधनाथ क्रांतिज्ययोरगे साध्ये । लम्बज्याकोटौ त्रिज्याकर्णस्तदाक्रांतिज्याकोटौ कः कर्ण इत्यनुपातेन । तत्स्वरूपं तु प्रत्येकं सूर्यचन्द्रयोः सूर्यक्रांतिज्यात्रिज्यागुणालम्बज्याभक्ता सू.कां.ज्या त्रि११
लं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com