________________
सूर्यसिद्धान्तः
तत्फलान्वितयोर्भूयः कर्त्तव्या विवरासवः ॥ ३ ॥ एवं यावत्स्थिरीभूता खन्द्विोरन्तरासवः ॥ नैः प्राणैरस्तमेतीन्दुः शुक्केऽर्कास्तमयात्परम् ॥ ४ ॥
( १६४ )
[ दशमोs
शुक्ले शुक्लपक्षाभीष्टदिने सूर्यास्तकाले स्पष्टौ सूर्यचन्द्रौ साध्यौ । चन्द्रस्य दृक्कर्मद्वयं संस्कार्यम् । तत्राक्षदृक्कर्म श्लोकपूर्वार्धोक्तमेव । तयोः सूर्यचंद्रयोः षड्राशियुतयोलग्नान्तरासवोऽन्तरकालासवः प्राग्वद्भोग्यासुनूनकस्येत्यादिना साध्याः । तौ सषड्भा
चन्द्र। वे कराशावभिन्नराशौ चेत्स्तस्तदा सषड्भयोस्तयोः सूर्यचन्द्रयोरन्तर कलाः कार्याः चकारो विषयव्यवस्थार्थकः । तयोरसुकलयोर्घटिकाभिरसवः षष्ट्यधिकशतत्रयेण माज्याः । घटिकाः कला उदयासुगुणिता एकराशिकलाभिर्भक्ता असवस्ते षष्ट्यधिकशतत्रयेण भाज्याः । घटिकाः । अभिः सूर्येन्द्वोर्गतीकलात्मके गुण्ये षष्टिभक्ते तत्फलान्वितयोः स्वस्वफलयुक्तयोः सपड्भसूर्यचन्द्रयोर्भूयः पुनर्विवरासवोऽन्तरप्राणाः पूर्वरौत्या कर्त्तव्याः । एवं तद्घटिकाभिः सूर्यास्तकालिकौ सषड्भसूर्यदृक्कर्मसंस्कृतचन्द्रौ प्रचाल्य तयोर्विवरासव इति यावत्स्थिरीभूता अभिन्नास्तावत्साध्याः । तैरभिन्नैरसुभिः सूर्यास्तादनन्तरं चन्द्रोऽस्तं प्राप्नोति । अत्रोपपत्तिः । सूर्यास्तकाले सषड्भार्को लग्नं दृक्कर्मसंस्कृतश्चन्द्रः षड्भयुतश्चन्द्रास्तकाले लग्नम् | परन्तु सूर्यास्तकालिकं न स्वास्तकालिकम् । पश्चिमदृग्ग्रहः सूर्यास्तकालिक इति तत्त्वम् । तदन्तरासवः: सावनाश्चन्द्रस्य सूक्ष्मा दिनशेषाः । परन्तु परिभाषया नाक्षत्रज्ञानसम्भवान्नाक्षत्राः साध्या इति चन्द्रस्ताभिश्चाल्यः स्वास्तकाले सषडो लग्नमस्मात्सूर्यास्तका लिकसषडू सूर्याच्चान्तरासवो नाक्षत्राः सूक्ष्मा अपि भगवतैकरीतिप्रदर्शनार्थं भिन्नकालिकाभ्यां सूर्यचन्द्राभ्यां कथं सूक्ष्मसमयसिद्धिरिति मन्दाशङ्कापनोदार्थं च सषड्भः सूर्योऽपि साधितश्चन्द्रास्तकाले । ताभ्यामन्तरासवो नाक्षत्रा अपि सूर्यास्तकालिकलग्ना ग्रहादसूक्ष्मा इत्यसकृत्सूक्ष्मा इत्युक्तमुपपन्नम् । वस्तुतस्तु सावनाभ्युपगमे “ रवीन्द्वोः षड्मयुतयोः प्राग्वलग्नान्तरासवः । तैः प्राणैरस्तमेतीन्दुः शुक्लेर्कास्तमनात्परम् ॥ " इत्येक एव सूर्यसि - द्धांत श्लोकः । श्लोकमध्य एकराशावित्यादिरवीन्द्वोरित्यन्तरासव इत्यन्तं श्लोकद्वयं केन चिन्मन्दमतिना समयोऽसकृदेव साध्य इति शिष्यधीवृद्धिदतन्त्रोक्तं सुबुद्धिमन्येनांयुक्तमपि युक्तियुक्तं मत्वा निक्षिप्तम् । कथमन्यथा भगवतः सर्वज्ञस्य शुद्धसावनघटीज्ञानानन्तरमसकृत्साधनोक्तिः सङ्गच्छते । किंच ' एकराशौ रवीन्द्वोश्व कार्या faaरलिप्तिकाः' इत्यर्धस्य त्रिप्रनाधिकारे भोग्यासूनूनकस्येत्यादिश्लोकाभिपेक्षितत्वेनात्रानपेक्षितत्वम् । प्राग्वलग्नान्तरासव इत्यनेनैवात्र तत्सिद्धेरिति । अथ नाक्षत्राभ्युपगमे तु चन्द्रस्य सावनघटीमिश्चालनं स्वास्तका लिकसिद्ध्यर्थमावश्यकं नतु सूर्यस्य प्रयोजना
1
66
:
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com