________________
अध्यायः १०.] संस्कृतटीका-भाषाटीकासमेतः। (१६३)
अयाग्रिमग्रन्थस्यासङ्गतित्वनिरासार्थमधिकारसमाप्तिं फक्कियाह-नक्षत्रग्रहयोर स्तोदयनिरूपणात्सांधारण्येनोदयास्ताधिकार इत्युक्तम् । रंगनाथेन रचिते सूर्यसिद्धान्तटिप्पणे । उदयास्ताधिकारोयं पूर्णो गूढप्रकाशके ॥ इति श्रीसकलगणकसार्वभौमबल्लालदैवज्ञात्मजरंगनाथगणकविरचिते गूढार्थप्रकाशके उदयास्ताधिकारः पूर्णः ॥ १९ ॥
इत्युदयास्ताधिकारः ॥
नवम अध्याय समाप्त ॥
दशमोऽध्यायः। अय भौमादीनां सूर्यसान्निध्योदयास्तासन्ने दीप्त्या सकलबिम्बदर्शनं तथा चन्द्रस्य स्वोदयास्तकाले सकलबिम्बदर्शनं शुक्लत्वेन न भवति । किन्तु बिम्बैकदेश एव शुक्लत्वेन न दृश्यत इति भौमादिविसदृशत्वं चन्द्रस्य कुत इत्याशङ्कायाः। पूर्वाधिकारे समु. पस्थितेस्तदुत्तरभूतशृंगोन्नमनाधिकारोऽवश्यमुपस्थित आरब्धो व्याख्यायते । तत्र शृङ्गोन्नतेरुदयकालात्पूर्वकालेऽस्तकालानन्तरकाले चासन्नकतिपयदिवसेषु दर्शनात्पूर्वाधिकारे चन्द्रस्य कालांशानुक्त्या तदुदयास्तानुक्तैश्च प्रथममुपस्थितचन्द्रोदयास्तयोः साधनमतिदिशति.
उदयास्तविधिः प्राग्यकर्त्तव्यः शीतगोपि ॥
भागीदशभिः पश्चादृश्यः प्राग्यात्यदृश्यताम् ॥ १ ॥ चन्द्रस्य अपिशब्दः पूर्वाधिकारोक्तैर्ग्रहनक्षत्रैः समुच्चयार्थकः । उदयास्तविधिरुदयास्तयोः साधनप्रकारः प्राग्वत्पूर्वाधिकारोक्तरीत्या गणकेन कार्यः। ननु कालांशानां पूर्वमनुक्तेः कथं तत्सिद्धिः । अत आह-भागैरिति । द्वादशभिरंशैश्चंद्रः पश्चिमायां दृश्य उदितो भवाते । प्राच्यामदृश्यतामस्तं पाप्नोति । अत्र पश्चात्मागिति पुनरुक्तमपि पूर्व बुधशुक्रयोः साहचर्येण चन्द्रोदयास्तदिगुक्त्या तत्साहचर्येण चन्द्रस्य पश्चिमास्तपूर्वोदयो वर्तते इति कस्यचिन्मन्दबुद्धिर्धमस्य वारणायेति ध्येयम् ॥ १॥
भा० टी०-चन्द्रमाकाभो पहले कही रीतिके अनुसार उदयास्तसाधन करना चाहिये १२ अंश दूर होने से पश्चिममें दिखाताहै और पूर्व में १२ अंश होनेपर अदृश्य होता है ॥ १॥
अथोदयास्तप्रसङ्गेन स्मृतयोश्चन्द्रनित्यास्तोदययोः साधनं विवक्षुः प्रथमं श्लोकत्रये णेन्दोनित्यास्तसाधनमाह--
रवीन्द्राः षड्युतयोः प्राग्वलनान्तरातवः ॥ एकराशौ रवीन्द्रोश्च कार्या शिवलिप्तिकाः ॥ २ ॥ तन्नाडिकाहते भुक्ती खीन्द्रोः षष्टिभाजिते ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com