________________
अव्यायः ९.] संस्कृतटीका-भाषाटोकासमेतः। (१५५) त्वादपांवत्सविक्षेप उत्तरास्त्रिभाग इति स्फुटार्थकः । अतोऽपांवत्सात् किश्चिदल्पान्तरेण बृहत्स्थूलतारात्मक आपसंज्ञकः । तथापांवत्सात्षभिरशरुत्तरस्यां स्थितश्चित्राध्रुवक एवापस्य ध्रुवको विक्षेप उत्तरो नवांशा इत्यर्थः ॥ २१॥
भा० टी०-चित्राके १ मंश उत्तरमें भपांवत्स भवस्थित, भप तिसकी अपेक्षा कुछ बडा है. सो अपांत्मके ६ अंश उत्तर में स्थित हैं ॥ २१ ॥
अथानिमग्रन्थस्यासंगतित्वनिरासार्थमाधिकारसमाप्तिं फक्कियाह-स्पष्टम् । रंगनाथेन राचते सूर्यसिद्धान्तटिप्पणे । ग्रहःक्याधिकारोऽयं पूर्णी गूढप्रकाशके ॥ इति श्रीसकलगणकसार्वभौमबल्लालदेवज्ञात्मजरंगनाथगणकविरचिते गूढार्थप्रकाशके नक्षत्रग्रहयुत्यधिकारः संपूर्णः ॥
इति नक्षत्रग्रहयुत्याधिकारः॥
आठवां अध्याय समाप्त ॥
नवमोऽध्यायः। अथोदयास्ताधिकारो व्याख्यायते । ननु सूर्येणास्तमनं सहति प्रागुक्ग्रहयुत्यधिकारानन्तरं नक्षत्रग्रहयुत्यधिकारात्मागेवोदयास्ताधिकारो निरूपणीय इत्यतोऽत्र तत्संगतिप्रदर्शनार्थमादौ तदधिकार प्रातिजानीते
अयोदयास्तमययोः परिज्ञानं प्रकीर्त्यते ॥
दिवाकरकराकान्तमूर्तीनामल्पतेजसाम् ॥ १॥ अथ नक्षत्रग्रहयुत्यधिकारान्तरं सूर्यकिरणाभिभूता मूर्तिर्बिवं येषां तेषां चन्द्रादिषइग्रहाणां नक्षत्राणां च । अत एवाल्पतेजसां न्यूनप्रभावतामुदयास्तमययोः । अग्रिमकाले मर्यादधिकासन्निहितसन्निहितत्वसम्भावनया क्रमेणोदयास्तयोः सूर्यानिस्सृतस्य यस्मिन्काले यदन्तरण प्रथमदर्शनं सम्भावितं स उदयः । सूर्यादूरस्थितस्य यस्मिन् काले यदन्तरेण प्रयमादर्शनं सम्भावितं सोऽस्तः । अनेन नित्योदयास्तव्यवच्छेदस्तयोरित्यर्थः। परिज्ञानं सूक्ष्मज्ञानप्रकारः प्रकीर्त्यते । अतिसूक्ष्मत्वेन मयोच्यत इत्यर्थः । तथाच ग्रहइत्युद्देशेऽस्तमनमुद्दिष्टमापि तस्य पूर्वमेव सूर्यासमत्व एव सम्भवात्तद्विलक्षणतया ग्रहयुतिप्रसंगेनोक्तम् । नक्षत्रग्रहयुतिस्तु ग्रहयुतिवादति तदनन्तरमुक्ता । अतः प्रतिबन्धकजिज्ञासापगमेऽवश्यवक्तव्यत्वादस्यावसरसंगतित्वात् । तत्संगत्या नक्षत्रग्रहयुत्याधिकारानन्तरं प्रागुद्दिष्टमस्तमनं तत्प्रसंगादुदयश्च प्रतिपाद्यत इति भावः ॥१॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com