________________
(१४०) सूर्यासद्धान्तः
[ सप्तमोऽत्रिचतुष्कर्णयुक्त्याप्तास्ते द्विघ्रास्त्रिज्यया हताः॥
रफुटाः स्वकर्णास्तिथ्याप्ता भवेयुनिलिप्तिकाः ॥ १४॥ त्रिंशदर्धार्धवर्धितास्त्रिंशतोऽध पंचदश तदर्ध सार्धसप्ततैरुत्तरोत्तरं युक्तास्त्रिंशत्क्रमेण भौमशनिबुधबृहस्पतीनां चन्द्रकक्षायां चन्द्राकाशगोले चन्द्रकक्षाप्रमाणेन स्वकक्षाप्रमाणेनेत्यर्थः । विष्कम्भा बिम्बव्यासायोजनात्मका उक्ताः । भौमस्य त्रिंशत् । शनेः सार्धसप्तत्रिंशत् । बुधस्य पञ्चचत्वारिंशत् । गुरोः सार्द्धद्विपञ्चाशत् । अनेनैव क्रमेण शुक्रस्य षष्टिः । भृगोः षष्टिरित्यनेनार्धाधैत्यस्य प्रत्येकमर्धयुक्ता इत्यो निरस्तः स्वा. भिमतार्थो व्यक्तीकृतश्च । ते उक्ता विष्कंभा द्विगुणास्त्रिज्यया गुणितास्त्रिचतुष्कर्ण' युक्त्याप्ताः । तृतीयकर्मणि चतुर्थकर्माण च यौ कौँ मन्दकर्णशीघ्रको तयोर्योगे न भक्ता इतिसांप्रदायिकव्याख्यानम् । नव्यास्तु तृतीयकर्मणि कर्णानुपातानुक्तेस्तृती. यकर्णस्य मन्दकर्णस्याप्रसिद्धरुपपत्तिविरोधाच्च पूर्वव्याख्यामुपेक्ष्य त्रिशब्देन त्रिज्याच नुष्कर्णश्चतुर्थकमणि शीघ्रकर्णस्तयोर्योगेन भक्ता इत्यर्थ कुर्वन्ति । स्पष्टाः स्वकर्णाः स्वबिम्बव्यासा भवन्ति । पञ्चदशभक्ता बिम्बमानकला भवेयुः। अत्रोपपत्तिः । स्वस्वकक्षायां स्थिताः पञ्चताराग्रहा दूरत्वाल्लोकैश्चन्द्राकाशस्थिता इव दृश्यन्ते । अत. स्तेषां वास्तवबिम्बव्यासयोजनानि स्वयं ज्ञातानि यथा सूर्यबिम्बव्यासयोजनान्युक्तानि चन्द्रग्रहणाधिकारे वः स्वभगणाभ्यस्त इत्यादिना चन्द्रकक्षायां साधितानि तथा स्वभगणानुसारेणोक्तप्रकारेण चन्द्रकक्षायां साधितानि । तथा च शाकल्यसहितायामू-“अन्तरुन्नतवृक्षाश्च वनप्रांते स्थिता इव । दूरत्वाचन्द्रकक्षायां दृश्यन्ते सकल ग्रहाः ॥ व्यर्धाष्टवर्धितास्त्रिंशद्विष्कम्भाः शास्त्रदृष्टतः ॥” इत्येतानि त्रिज्यातुल्यशीघ्रकर्ण उक्तानि । अतः शीघ्रकर्णेऽधिके न्यून बिम्बग्रहस्योच्चासन्नत्वादल्पे तु नीचासन्नत्वादधिकं बिम्बामतित्रिज्ययोक्तानि बिम्बानि तदेष्टशीघ्रकर्णेन कानीति व्यस्तानुपातेन युक्तमपि भगवतोपलब्धा त्रिज्यातोऽधिकन्यूनकर्णयोः क्रमेण व्यस्तानुपातागतादधिकं न्यूनं च बिम्बं दृष्टमतः कर्ण एव त्रिज्याशीघ्रकर्णयोगामितः क्रमेण न्यूना धिको गृहीतः । अत्र च्छेदं लवं च परिवर्त्य हरस्येत्यादिना दिनास्त्रिज्यागुणिता विष्कंभास्त्रिज्याशीघ्रकर्णयोगभक्ता इत्युपपन्नम् ॥ "त्रिचतुष्कर्णयोगार्ध स्फुटकर्णोऽयमस्तके। त्रिज्यानाः स्फुटकर्णाप्ता विष्कम्भास्ते स्फुटाः स्मृताः ॥” इति शाकल्योक्तेश्च । अत एव विम्बस्य द्राीचोच्चमण्डलस्थत्वेन शीघ्रकर्णस्यैव भूगर्भाद्रिंबे सम्बन्धान्मन्दकर्णसम्बन्धस्त्वयुक्तः । नहि छेद्यके मन्दकर्णार्धाच्छीघ्रकर्णीधै ग्रहबिम्बमस्तीति प्रतिपादितम् । येन मन्दशीघ्रकर्णयोर्योगार्धं कर्णः सूपपन्नः । शीघ्रफलानयने तथाङ्गीकांगपत्तेः । भास्कराचार्यैस्तु-व्यङ्ग्रीषवः सचरणा ऋतवास्त्रिभागयुक्ताद्रयो नव च सत्रिलवेषवश्च । स्युमेध्यमास्तनुकलाः क्षितिजादिकानां त्रिज्या सुकविवरण पृथ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com