________________
ध्यायः ७ ] संस्कृतटीका-भाषाटीकासमेतः। (१३५) ग्रहोदयाज्ञानात्तदवधिकालमानज्ञानाभावात् । नहि. ग्रहस्य दिनरात्रिगतकालज्ञानं विनापि केवलदिनरात्रिमानाभ्यां तत्सिद्धिरत आह-स्वकालग्नवशादिति । यस्मिन्काले समी ग्रहो जाती तात्कालिकलग्नं पूर्वोक्तप्रकारावगतं तद्वशात्तद्रहणादित्यर्थः । स्वकात्समाहात्प्रत्येकमुन्नतनतकालौ साध्यावित्यर्थः । एतदुक्तं भवति । युतिकालिकलग्नमधिकसझं प्रकल्प्य समग्रह न्यूनसऱ्या प्रकल्प्य । “भोग्यासूनूनकस्याथ भुक्तासूनधिकस्य च । सम्पीड्यान्तरलग्नासू नेवं स्यात्कालसाधनम् ॥” इति त्रिप्रश्नाधिकारोत्तया ग्रहस्य दिनगतं रात्रिगतं प्रसाध्य दिने दिनगतशेषयो रात्रौ रात्रिगतशेषयोर्यदल्पं तदुन्नतम् । तेनोनं दिनार्धे राज्य वा ग्रहस्य नतम् । दिनक्षपामानं नतोन्नतमित्येकवचनेन समग्रहयोरभिन्नंदिनमानं रात्रिमानं नतमुन्नतं चेति सूचनादपि नोदयलग्नलग्नाभ्यामन्तरकालः प्रत्येकं भिन्नः साध्यः । नवास्पष्टक्रान्तिजचरेण दिनरात्रिमाने प्रत्येकं पूर्वमुदयलग्नस्यैवासिद्धेरिति स्फुटीकृतम् । अत्रोपपत्तिः । तात्कालिकार्कलग्नाभ्यां यथा सूर्यस्योदयगतकालस्तथा तात्कालिकग्रहलग्नाभ्यां ग्रहोदयगतकालः सिद्भयति यद्यपि सूर्यस्य क्रान्तिवृत्तस्थत्वात्सूर्यस्य युक्तः कालः । ग्रहस्य तु क्रान्तिवृत्तस्थत्वानियमादुक्तरीत्यागतकालस्य क्रांतिवृत्तस्थग्रहचिह्नीयत्वेऽपि ग्रहबिम्बीयत्वाभावादयुक्तत्वम् । अतएव वक्ष्यमाणकर्मसंस्कृतगृहादानीतकालो ग्रहबिम्बीयस्तथापि वक्ष्यमाणकर्मार्थ ग्रहचिह्नीयस्यैवापेक्षितत्वान्न क्षतिः ॥ ७॥
भान्टी-समकलाकालीन तिनका दिनरात्रिमान साधन करे । तितकी तात्कालिक विक्षपकला निर्णय करके ग्रहस्थानगत लग्नसे नतोन्नत साधन करे ॥ ७ ॥ अयाक्षटक्कर्मतत्संस्कारं च ग्रहस्य श्लोकाभ्यामाहविषुवच्छापयाभ्यस्ताद्विक्षेपाद्वादशोद्धृतात् ॥ फलं स्वनतनाडीघ्नं स्वदिनाविभाजितम् ॥ ८॥ लब्धं प्राच्यामृणं सोम्यादिक्षेपात्पश्चिमे धनम् ॥
दक्षिणे प्राकपाले स्वं पश्चिमे तु तथा क्षयः ॥ ९॥ - अक्षमया गुणिताहविक्षेपादानीताद्वादशभक्ताचल्लब्धं तत्स्वनतनाडीनं विक्षेपसम्बधिग्रहस्य नतघटीभिर्गुणितं तस्यैव दिनार्धन भक्तं रात्रौ राव्यर्धनत्यर्थसिद्धम् ।अत्र समग्रहयोः पूर्वोकप्रकारेण दिनमाननतयोरभिन्नत्वात्स्वशब्द । उभयत्रानावश्यकोपि युतिव्यतिरिक्तदृग्ग्रहाणां प्रयोजनतया साधनवैयधिकरण्यावृत्त्यर्थं स्वपदं भगवता दत्तम् । वस्तुतस्तु दृग्ग्रहयोस्तुल्यत्वे भगवताने युतेरुक्तत्वात्तात्कालिकयोः स्पष्ट
जिस अंशमै ग्रह स्थित है, तिरुके उदय ( लम ) का समय स्थिर करके तिससे ग्रहका मध्योदय कालग्रहका दिनार्द्धमान मिलातेही प्राप्त होजाताहै। मध्यादयकाल लियत होजाने पर इष्टदण्डकी पृथकताके द्वारा नतोत्रत सहजसे जाना जाता है।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com