SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ( १३० ) सूर्यसिद्धान्तः 1 संलिखेत् । सम्यक्प्रकारेण कुर्यात् । तेन वृत्तेन ग्राह्यग्राह्यवृत्ताद्यन्मितमेकदेशरूपं वृत्तमाक्रान्तं व्याप्तम् । तत्तन्मितग्राह्यवृत्तांशं तमोग्रस्तं छादकाच्छादितमभीष्टकाल आदिशेत्कथयेत् । अत्रोपपत्तिः । इष्टग्रासोनं मानैक्यखण्डं कर्णः । स तु ग्राह्यग्राहककेन्द्रान्तररूपः । अतोऽयं ग्राह्यकेन्द्रात्पूर्वज्ञातग्राहकमार्गररेवायां यत्र' लग्नस्तत्राभीहंसमये ग्राहककेन्द्रम् । तस्माद्राहकवृत्तेन ग्राह्यवृत्तं यदाक्रान्तं तत्काले ग्रास इति सुगमा ॥ १७ ॥ १८ ॥ १९ ॥ मा०टी० - ग्राह्य और ग्राहकमान के योगार्द्धसे इष्टग्रास वियोग करके जो बच्चे उस पार - माणमध्यबिन्दुसे रेखा उसी मार्ग के सामनेको खँचे । मध्यग्रहण के पूर्व होनेपर स्पर्शदिशा में मौर पर होने पर मोक्षाभिमुख में रेखा को उतारले । रेखान्त बिन्दुकेन्द्र करके ग्राहकमानार्द्ध अनुसार वृत्तरचना करे | वह वृत्त और ग्राह्यवृत्त दोनों के अधिकृत अंशही तात्कालीन आच्छादित अंश ॥ १७ ॥ १८ ॥ १९ ॥ अथ श्लोकाभ्यां निर्मीलन परिलेखमाह [ षष्ठा मानांतरार्धेन मितां शलाकां ग्रासदिङ्मुखीम् । निमीलनाख्यां दद्यात्सा तन्मार्गे यत्र संस्पृशेत् ॥ २० ततो ग्राहकखण्डेन प्राग्वन्मण्डलमालिखेत् ॥ तद्राह्ममण्डलतियंत्र तत्र निमीलनम् ॥ २१ ॥ ग्राह्य प्रहिकबिम्बमानयोरन्तरस्यार्धं तेन परिमितां शलाकां निमीलनसंज्ञां ग्रासदि-मुखीं स्पार्शिकशराग्रविभागाभिमुखीं मध्यबिन्दोः सकाशाद्दद्यात् । सा निमीलनसंज्ञा शलाका तन्मार्ग स्पार्शिकग्राहकमार्ग चापरेखाकारं यस्मिन्प्रदेशे संलग्ना स्यात्तत्स्थानाग्राहकमानार्धेन प्राग्वन्मध्याभीष्टग्रासज्ञानार्थ यथा तद्वृत्तं कृतं तथेत्यर्थः । वृत्तं कुर्यात् । तद्ग्राह्यमण्डल युतिर्लिखित वृत्तग्राह्यवृत्तयोः संयोगो यत्र यस्यां दिशि तत्र तस्यां दिशि निमीलनं ग्राह्याबम्बस्य निमज्जनं स्यात् । अत्रोपपत्तिः । सम्मीलनकाले ग्राह्यग्राहककेन्द्रान्तरं मानाधन्तरमितकर्णः । अन्यथा तदनुपपत्तेः । स ग्राह्यकेन्द्रात्स्पर्शमार्गे यत्र लग्नस्तत्र ग्राहककेन्द्रम् तस्माद्ग्राहक वृत्तं ग्राह्यमण्डलं यत्र स्पृशति तत्र निमीलनं स्पष्टम् ॥ २० ॥ २१ ॥ भा०टी०-ग्राह्यग्राहकमानद्वयान्तरार्द्ध परिमित शलाका ग्रासदिशा में उप्त मार्गपर स्थापन करे और तिसके अग्रभागको केन्द्र करके ग्राहक मानके अनुसार मंडल लिखनेते जहां पर वह मण्डलको स्पर्श करे तिसी दिशा में निमीलन आरम्भ होगा ॥ २० ॥ ११ ॥ अयोन्मीलनपरिलेखमाह एवमुन्मीलने मोक्षादिङ्मुखीं सम्प्रसारयेत् ॥ विलिखेन्मण्डलं प्राग्वदुन्मीलननथेोक्तवत् ॥ २२ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034621
Book TitleSurya Siddhant
Original Sutra AuthorN/A
AuthorBaldevprasad Mishra
PublisherGangavishnu Krishnadas
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy