________________
(१०६) सूर्यासद्धान्तः।
[ चतुर्थोऽअथ मध्यग्रहणानन्तरमिष्टयासानयनमाह
मध्यग्रहणतश्चोर्ध्वमिष्टनाविंशोधयेत् ॥
स्थित्यर्धान्मोक्षिकाच्छेषं प्राग्वच्छेषं तु मौक्षिके ॥ २१ ॥ मध्यग्रहणकालादूर्ध्वमनन्तरम् । चकारो विशेषार्थकतुकारपरः । इष्टघटि काः कर्म । मौक्षिकान्मोक्षकालसम्बद्धात् स्थित्यर्धात् । न स्पर्श विशोधयेत् । गणक इति कर्ताक्षेपः । शेषं कोटिलिप्तादिनासानयनान्तं गणितकर्मप्राग्वटुक्त्यः तरं समाहन्यादित्युक्तमकारण कुर्यात् । मौक्षिके मोक्षस्थित्यर्धान्तर्गतेष्टकाले तुविशेषे । ग्रासः शेषमुरितो ग्रासोऽवान्तरग्रासो भवति । पूर्ववद्गतः । अत्रोपपतिः । पातादिमध्यग्रहणात्पूर्वामिष्टकालस्य ग्रहणारंमावधिकस्य स्पर्शस्थित्यर्ध: सम्बद्धत्वादागतो ग्रास उपचयात्मकः । नावशिष्टः । अवशिष्टमण्डलस्य शुदत्वेन ग्रस्तत्वासम्भवात् । एवं मध्यग्रहणानन्तमिष्टकालस्य मोक्षस्थित्यान्तर्गतत्वादुक्तरीत्यानीतो ग्रासोऽपचयात्मकः । न शुद्धविम्बदर्शनात्मकः । ग्रस्त. त्वाभावात् ॥ २१॥
भा०टी०-मध्यग्रहणके पीछे होनेपर.मौक्षिक स्थित्यर्द्धसे इष्टनाडी ( मोक्षकाविमुक्त इष्ट दण्डादि ) वियोग करके कोटिनिर्णय करे ॥ २१ ॥ अथाभीष्टग्रासादिष्टकालानयनं श्लोकाभ्यामाह
ग्राह्यग्राहकयोगार्धाच्छोध्या स्वच्छत्रलिप्तिकाः ॥ तदर्गात्प्रोड्य तत्कालविक्षेपस्य कृति पदम् ॥ २२॥ कोटिलिप्ता खेः स्पष्टस्थित्यधनाइता हृताः ॥
मध्येन लिप्तस्तन्नाड्यः स्थितिवद्ग्रासनाडिकाः ॥२३॥ छायच्छादकमानैक्यखण्डादभीष्टग्रासकलाः शोध्याः। शेषस्य वर्गादभीष्टग्रासकालिकविक्षेपस्य वर्ग विशोध्यः शेषस्य मूलं कोटिकलाः । सूर्यग्रहणे विशेषमाह-वेरिति । सूर्यस्य ग्रहण इतिशेषः । भानोर्ग्रह इति पूर्वमुक्तेः । उक्तप्रकारेण याः कलास्ता मध्यग्रहणकालस्पर्शमोक्षान्यतरकालयोरन्तररूपेण स्पष्टास्थित्यर्धेन गुण्याः । स्पष्टशरोत्पन्नस्थित्यर्धेन मध्यमेन भक्ताः फलं कोटिकला भवन्ति । स्थितिवत् स्थित्यर्धसाधनरीत्या । “षष्ट्या सद्गुण्य सूर्येन्दोमुक्तयन्तरविभाजिताः ” इत्युक्तेन तासां कोटिकलानां घटिकायास्ता अभीष्टग्राससम्बन्धिघटिकाः स्पर्शमोक्षान्यतरस्थित्यान्तर्गताः ऋमेण मध्यग्रहणाच्छेषा गता वा भवन्ति । अत्रोपपत्तिः । पूर्वोक्तव्यत्यासात्सुगमतरा । परन्तु स्वाभीष्टपासकालिकशरज्ञाने सूक्ष्मम् । तच्छराज्ञाने मध्यकालिक शरग्रहणेन
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com