________________
मायः ४.] संस्कृतटीका-माषाटीकासमेतः। ( १०५) र्धघटिकानां कलाः कोटिः सिद्धा । पूर्वस्पर्शकालिककोट्याः स्थित्यर्धघटिकानां सिद्धस्वात् ॥ १८ ॥
भा०टी०-सूर्यचन्द्रकी गतांतरकलाके द्वारा ग्रहणारम्भसे दण्डादिवियुक्त स्थित्यई गुणकरके ६० से भागकरनपर भागफक कोटि कला होगा ॥ १८ ॥ अथात्र सूर्यग्रहणे विशेषमाह
भानोहे कोटिलिप्ता मध्यस्थित्यसंगुणाः॥
स्फुटस्थित्यर्धसम्भक्ताः स्फुटाः कोटिकलाः स्मृताः॥ १९ ॥ सूर्यस्य ग्रहणे उक्तप्रकारेण याः कोटिकलाः सूर्यग्रहणोक्तस्पष्टस्थित्यर्धा नीतामध्यस्थित्यर्धेन सूर्यग्रहणोक्तस्पष्टशरानीतस्थित्यर्धेन संगुणिताः स्फुटस्थित्यर्धेन सूर्यग्रहणाधिकारोक्तेन भक्ताः सत्यः स्पष्टा कोटिकलाः सूर्यग्रहणतत्त्वज्ञैरुक्ताः । अत्रोपपत्तिः । सूर्यग्रहणे स्पर्शमोक्षान्यतरमध्यकालयोरन्तरस्य स्थित्यर्धत्वात्तस्य च स्पष्टशरोडूत" स्थित्यर्धलम्बनान्तरैक्यसंस्कारमितत्वात्स्पष्टस्थित्यर्धानुरुद्धा उक्तरीत्या नीताः कोटि कलाः । अपेक्षिताश्च स्पष्टशरोभूतस्थित्यानुरुद्धाः । एतत्कोटिसम्बद्धं क्षेत्रम् । स्थित्यर्धक्षेत्रान्तर्गतत्वात् ।। स्पष्टस्थित्यर्धस्य तूक्तक्षेत्रोत्पन्नत्वाभावात् । अन्यथा स्पष्ट शरोद्गतस्थित्यर्धस्य लंबनान्तरक्यसंस्कारानुक्तिप्रसङ्गः ।। अतः स्पष्टस्थित्यर्धनताआगताः कोटिकलास्तदा स्पष्टशरोद्गतक्षेत्रजमध्यमरूपस्थित्यर्धेन का इति स्फुटा: कलाः सिद्धाः ॥ १९॥
भा०टी०-सूर्यग्रहण में कोटिकला मध्यस्थित्यर्घद्वारा गुणकरके स्फुट स्थिस्यद्वारा भागकरनेपर स्फुट कोटिकला होगी ॥ १९ ॥ अथाभ्य इष्टग्रासानयनमाह
क्षेपो भुजस्तयोर्वर्गयुतर्मुलं श्रवस्तु तत् ॥
मानयोगार्धतः प्रोज्य ग्रासस्तात्कालिको भवेत् ॥ २० ॥ क्षेपो विक्षेपो भुजः । कोटिभुजयोः कर्णसापेक्षत्वादाह-तयोरिति । कर्णस्तु तयों कोटभुजयोर्वर्गयोगान्मूलं सिद्ध एव । तत्कर्णवर्गात्मकं मूलं ग्राह्यग्राहकमानैक्याधाद्धिशोध्य शेषं तात्कालिकः कल्पितेष्टकालसंबंधी ग्रासो वातासः स्यात् । अत्रोपपत्तिः । क्षेत्रं पूर्व प्रतिपादितम् । स्पर्शकाले मानैक्यखण्डस्य कर्णत्वात् क्षेत्रयोरुभयोर्मध्यकालावधित्वादिष्टकोनं मानैक्यखण्डमिष्टग्रास एव ॥ २० ॥ ___ भा०टी०--विक्षप (भुज)वर्ग और कोटीफलका वर्ग मिलाकर मूल ग्रहण करनेसे कर्ण होगा । चन्द्रसूर्यमान-योगाईसे वर्णवियोग करनेपर तात्कालिक ग्रास होगा ॥ २० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com