________________
(१०४)
सूर्यसिद्धान्त:
[ चतुर्थोस्पर्शमोक्षकालाविति विषयव्यवस्थार्थकः । अत्रोपपत्तिः। तिथ्यन्तकाले छाद्यच्छादकयोः पूर्वापरान्तराभावाद्योगे मण्डलस्पर्शी यावान्भवति ततः पूर्वाग्रिमकालयोन्यून एवातोऽत्र मध्यग्रहणकालः । केचित्तु । “पर्वान्तः किल साधितो भवलये सूर्येन्दुचिह्नान्तरात्तस्मिन्बिम्बसमागमो न हि यतश्चन्द्रः शराग्रे स्थितः । तस्मादायनदृष्टिसंस्कृत. विरोधानीततिथ्यन्तके बिम्बैक्यं भवतीति किं न विहितं पूर्वैर्न विद्मो वयम् ॥” इत्य. नेनात्र मध्यग्रहणं खण्डयति । तन्न । पूर्वापरान्तराभावे योगसत्वेन कदम्बसूत्रस्थयोर्याम्योत्तरान्तरस्यैव सत्त्वेन सत्र मध्यग्रहणस्योचितत्वात् । अन्यथा ध्रुवसूत्रे समसूत्रे वा योगाभ्युपगमे विनिगमनाविरहापत्तेः । यथा गतग्रहयोः कदम्बसूत्रेणैव योगाभ्यु: पगमात् । दृष्टिप्रत्ययार्थ दृक्कर्मोक्तेः । ग्रहणद्वयस्य स्वत एव दृग्गोचरत्वात्। ग्रहद्वया' दर्शनाचेत्यादिसंक्षेपः। मध्यग्रहणकालात्पूर्व स्पर्शस्थित्यर्धघटीभिः स्पर्शः । अग्रिमकाले मोक्षस्थित्यर्धघटोभिर्मोक्षः । स्थित्यर्धयोस्तदन्तररूपत्वेन सिद्धेः ॥ १६ ॥
भाटी-स्पष्टतिथिके शेषमें मध्यग्रहण होता है । तिससे सूक्ष्म स्थित्यर्घ दण्डवियोग करनेपर ग्रास (स्पर्श) काल होताहै और योग करनेसे मोक्षकाल होता है ।। १६ ॥ अथ सम्पूर्णग्रहणे निमीलनोन्मीलनकालावप्याहतदेव विमर्धिनाडिकाहीनसंयुते ॥
निमीलनोन्मीलनाख्ये भवेतां सकलग्रहे ॥ १७ ॥ संपूर्णग्रहणे तहत् । यथास्थित्य|नाधिके तिथ्यन्ते स्पर्शमोक्षौ तथेत्यर्थः । एककारात्तद्भिन्नतिव्युदासः। स्पर्शविमर्धिमोक्षविमर्दार्धघटीभ्यां क्रमेणोनयुते तिथ्यते क्रमण मिमीलनोन्मीलनसझे स्याताम् । अत्रोपपत्तिः। मर्दार्धस्य मध्यकालात्तदन्तररूपत्वेन तदूनाधिके तस्मिन्क्रमेण निमीलनोन्मीलने सम्पूर्णग्रहण एव भवतः ।। न्यूनग्रहणे तत्स्वरूपव्याघातात्तदभावः ॥ १७ ॥
भा०टी०-सम्पूर्ण ग्रहणमें सूक्ष्म विमर्द्धि घटिका मध्य ग्राणसमयसे हीन और तिसमें योग करनेसे निमीलन उन्मीलन काल होगा ॥ १७ ॥ अथेष्टकाल इष्टयासज्ञानार्थ कोटिकलानयनमाह
इष्टनाडीविहीनेन स्थित्य(नार्कचन्द्रयोः॥
भुक्त्यन्तरं समाइन्यात्षष्टयाप्ताः कोटिलिप्तिकाः॥१८॥ सूर्यचन्द्रयोर्गत्यन्तरं कलात्मकं ग्रहणारम्भाद्या इष्टघाटकाः स्पर्शस्थित्यर्धघटयनधिकास्ताभिरूनेन स्पर्शस्थित्यर्धेन गुणयेत्। अस्मात्पष्टिविभक्तप्राप्ताः कोटिकला भवन्ति । अत्रोपपत्तिः । इष्टकाले छाद्यच्छादकमण्डलकद्रयोरन्तरं कर्णस्तत्कालशरो भुजस्तत्कालशराममध्यकालिकशराप्रयोरन्तरं, विक्षेपवृत्चे कोटिरिति क्षेत्रइष्टघट्यूनस्पस्थित्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com