________________
ध्यायः ४. ]
संस्कृतटीका - मापाटीकासमेतः ।
( १०३ ) विपरीतं प्रग्रहस्थित्यर्धनिमित्तं योज्यं मोक्षस्थित्यर्धनिमित्तं हीनमित्यर्थः । तद्विक्षे पैस्तात्कालिकचन्द्रपात|भ्यामानीतशरकलाभिः । कलानां बहुत्वाद्विक्षेपैरिति बहुवचनम् । विक्षेपाभ्यामित्यर्थः । पुनः पुनः स्थितिदलं कार्यम् । अत्रकं पुनः पदं स्पर्शस्थित्यर्थसम्बद्धं द्वितीयं मोक्षस्थित्यर्ध सम्बद्धं पुनः पदम् । तेन स्पर्शस्थित्यर्धार्थसाधितचन्द्र-पाताभ्यामानीतशरेण प्रागुक्तप्रकारेण स्पर्शस्थित्यर्थं संसाध्यम् । मोक्षस्थित्यर्धार्थसाधितचन्द्रपाताभ्यामानीतशरेण पूर्वोक्तरीत्या मोक्षस्थित्यर्धे साध्यमित्यर्थः । तच्चोभयमसकृद्वारंवारं स्पर्शस्थित्यर्धानीतचालनेन मध्यकालिकौ चन्द्रपातावुक्तरीत्या प्रचाव्य तच्छः रेण पूर्वोक्तरीत्या स्पर्शास्थित्यर्धमस्मादप्युक्तरीत्या स्पर्शास्थित्यर्धमेवं यावदविशेषः एवं मोक्षस्थित्यर्धांनीतचालनेन मध्यकालिकौ चन्द्रपाता उक्तरीत्या प्रचाल्य तच्छरेण पूर्वोक्तरीत्या मोक्षस्थित्यर्धमस्मादप्युक्तरीत्या मोक्षस्थित्यर्धमेवं यावदविशेष इत्यर्थः । ननु स्थित्यर्धविमर्दार्धयोरकमित्युक्तेः कथं विमदर्धमसकृत्साध्यमिति नोक्तमित्यत आह-विम दर्धमिति । तथा स्पर्शमोक्षस्थित्यर्धसाधनरीत्या सकृद्यावदविशेषस्तावत्स्पर्शमदर्घ मोक्ष मर्दा व संसाध्यम् । तथाहि स्थित्यर्धनाडिकाभ्यस्ता इत्यत्र विमदर्धनाडिका ग्रहास्पर्शमदधिमोक्षमदर्द्धं साध्ये | आभ्यां प्रत्येकमसकृत्स्पर्शमदर्धमोक्षमदीधे स्फुटे स्तः । अत्रोपपत्तिः । प्रागुक्तं क्षेत्रं स्पर्शमोक्षसम्मीलनकालिकशरवशादिति तदज्ञानान्मध्यकालिकशरग्रहणेन स्थूलं स्थित्यर्ध मदर्थं चातो मध्यकालात्तदन्तरेण पूर्वाग्रिमकालिकयोस्तेषां सम्भवात्तत्कालचालितचन्द्रपाताभ्यां विक्षेपस्तात्कालिको भवति परं स्थूलः । स्थूलस्थित्यर्धाद्यानीतत्वात् । अतोऽस्मदानीतं स्थित्यर्धादिपूर्वापेक्षया सूक्ष्ममपि स्थूलमित्यसकृत्सूक्ष्ममिति । तत्र सम्मीलनोन्मीलनकालयोराकाशस्पर्शमोक्षसम्भवाःस्पर्श मोक्षमर्दार्धमिति ध्येयम् ॥ १४ ॥ १५ ॥
भा० टी० - स्थित्यर्थ दण्ड से सूर्य चन्द्र और राहुकी गति गुण करके ६० से भाग करनेपर जो कलादिहों, सो ग्रहले स्पर्शहीन (पातस्थान में योग ) और मोक्षमें चंद्रमा व सूर्यमें योग और पातस्थान में वियोग करना होता है || १४ || तिससे तिसकालके विक्षेपद्वारा स्थित्यर्द्ध और विमदर्द्ध बारम्बार निर्णय करनेपर सूक्ष्म होता है ॥ १५ ॥
अथ मध्यग्रहणस्पर्शमोक्षकालानाह
स्फुटतिथ्यवसाने तु मध्यग्रहणमादिशेत् ॥ स्थित्यर्धनाडिकाहीने ग्रासो मोक्षस्तु संयुते ॥ १६ ॥
स्पष्टतिथ्यन्तकाले | तुकारात्तत्पूर्वापरकालनिरासः । मध्यग्रहणग्रासोपचयसमाप्तिं कथयेत् । मध्यग्रहणसम्बन्धेन मध्य सूर्यचन्द्रानीतमध्यतिथ्यन्ते तत्सम्भव इति कस्य - चिद्भ्रमस्तद्वारणार्थं स्फुटेति । स्थित्यर्धघटिकाभिरूने तिथ्यन्तकाले ग्रासः स्पर्शः । संयुते स्थित्यर्धघटीभिर्युते तिथ्यन्तकाले मोक्षः | तुकारः स्पर्शमोक्षस्थित्यर्धाभ्यां
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com