________________
(१०२) सूर्यसिद्धान्तः
[चतुर्थोऽषष्टया संगुण्य सूर्येन्द्रो(त्यन्तरविभाजिते ॥
स्यातां स्थितिविमर्धेि नाडिकादिफले तयोः ॥ १३ ॥ ग्राह्यग्राहकमानयोर्योगान्तरे अर्धिते पृथकूस्थानान्तरे स्थाप्ये । अग्रिमझियायां कदाचिदशुद्धत्वसंभवे पुनः क्रियार्थमेतयोरावश्यकत्वात् । तदर्गाभ्यां योगार्दान्तरार्धयोर्वर्गाभ्यां विक्षेपवर्गेण वर्जिताभ्यामुभे द्वे मूले षष्टया गुणयित्वा सूर्यचन्द्रयोर्गत्यन्तरकलाभिर्भक्ते तयोर्योगवियोगयोः स्थाने षष्ट्यादिफले क्रमेण स्थित्यर्ध विमर्दार्धे भवतः । पत्रोपपत्तिः । ग्रहणारंभाद्रहणान्तपर्यन्तं यः कालः स स्थितिसंज्ञः । तस्य खण्ड एकं ग्रहणारंभान्मध्यग्रहणपर्यन्तमपरं मध्यग्रहणाद्रहणान्तपर्यन्तम् । तत्र बिम्बनेमिस्पर्श काले मानक्यखण्डं कर्णः स्पर्शमोक्षकालिकशरो भुजः स्पर्शमोक्षान्यतरकालिकशराग्रमध्यकालिकशराग्रयोरन्तरं पूर्वापरं कोटिरिति तत्खण्डसाधकं क्षेत्रम् । एवं संपूर्णग्रहणे सम्मीलनोन्मीलनकालयोरन्तरकालो : मर्दस्तत्र मध्यग्रहणात्सम्मीलनोन्मीलनकालावधि खण्डे तत्साधकं छाद्यच्छादकमण्डलकेंद्रयोरन्तरं मानार्धान्तरतुल्यं कर्णस्तात्कालिकशरो भुजः शराग्रयोरन्तरं विक्षेपवृत्ते पूर्वापरं कोटिरिति क्षेत्रम् । सम्मलिनं छाद्यमण्डलस्या च्छादनसमाप्तिः । उन्मीलनं तु छादकमण्डलादाच्छादितसंपूर्णच्छाद्यमण्डलस्य निः सरणारंभः । तत्र स्पर्शमोक्षसंमीलनोन्मीलनकालानामज्ञानान्मध्यकालिकविक्षेपग्रहणम् । भुजकर्णवर्गान्तरपदं कोटिरिति पूर्वश्लोकोक्तमुपपन्नम् । छाद्यच्छादकमण्डलकेंद्रयोः पूर्वोपरान्तराभावे मध्यग्रहणसंभवाच्छाद्यच्छादकयुतिर्गत्यातरकलाभिः षष्टिघटिकास्तदानीतकोटिक्लाभिः काइत्यनुपातेन स्थितिमर्दखण्डे । तत्र चन्द्रग्रहणे भूभागतेः सूर्यगत्यनुरोधात्सूर्यगतित्वमित्युपपन्नं द्वितीयश्लोकोक्तम् ॥ १२ ॥ १३ ॥ - भाटी०-पृथक् ग्राह्य ग्राह्यकमान योगार्द्ध और वियोगाई वर्ग निर्णयकरे । तिससे विक्षेप वर्ग हीन करके मूल निर्णय करे । उन दो मूलको ६० से गुण करके सूर्येन्दु स्पष्ट भुक्त्यन्तरसे माग करने पर स्थूलस्थितार्द्ध और स्थूल विमर्धि दण्डादि होंगे ॥ १२ ॥ १३ ॥ अथ स्थित्यर्धविमदर्धि असकृत्साध्ये इति श्लोकान्यामाइ
स्थित्यर्धनाडिकाभ्यस्ता गतयः षष्टिभाजिताः ॥. लिप्तादिप्रग्रहे शोध्यं मोक्षे देयं पुनः पुनः ॥ १४ ॥ तद्विक्षेपः स्थितिदलं विमधि तथासकृत् ॥
संसाध्यमन्यथा पाते तल्लिप्तादिफलं स्वकम् ॥ १५॥ सूर्यचन्द्रपातानां गतयः स्थित्यर्धघटीभिर्गुणिताः षष्ट्या भक्ताः फलं कलादिप्रग्रहे स्पर्शस्थित्यर्धनिमित्तं सूर्यचन्द्रयोहीनमोक्षे मोक्षस्थित्यर्धनिमित्तं सूर्यचन्द्रयोदेयं योज्यम् । चन्द्रपाते तल्लिप्तादिफलं स्थिायर्धघट्यानीतं कलादिपूर्वफलं स्वकं स्वगत्युत्पन्नमन्यथा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com