________________
ध्याय ३. ]
संस्कृतटीका भाषाटीकासमेतः ।
( १.१ )
भा० टी० - मेघकी समान चंद्रमा नीचे आयकर सूर्य को ढक लेता है । आगे चलता हुआ चंद्रमा पृथिविकी छाया में प्रवेशकरे तो ग्रहण होता है ॥ ९ ॥
अथ ग्रासानयनमाह
तात्कालिकेन्दुविक्षेपं छाद्यच्छादकमानयोः ॥ योगार्धात्प्रोज्झय यच्छेषं तावच्छन्नं तदुच्यते ॥ १० ॥
यश्छाद्यते स च्छाद्यः । सूर्यग्रहणे सूर्यचंद्रग्रहणे चन्द्रः । यश्छादयति स च्छादकः ॥ सूर्यचन्द्रग्रहणयोः । क्रमेण चन्द्रभूभे । तयोः पूर्वानीतमान कलयोरैक्यस्यार्धातात्कालिकचन्द्रात्पूर्वोक्तप्रकारेण साधितं विक्षेपं कलादिकं विशोध्य यदवशिष्टं तत्प्रमाणकं छन्नं छादकेन च्छाद्यस्य यावान्मण्डलप्रदेश आच्छादितस्तावत्प्रदेशात्मकं ग्रासरूपं ग्रहणं तत्त्वज्ञैः कथ्यते । अवोपपत्तिः । छाद्यच्छादकमण्डलनेमियोगे ग्रहणाद्यन्तरूपे मण्डल केन्द्रयोरन्तरं स्वबिम्बखण्ड योगरूपम् । बिम्बस्य व्यासमानात्मकत्वात् । तत्तु समत्वालाघवाच्च योगार्धरूपं धृतम् । ततो यथा प्रवेशस्तथा ग्रासो भवतीति पर्वान्ते छाद्यच्छादकयोर्विक्षेपान्तरितत्वात्तदूने विक्षेपे मण्डलयोगस्तदन्तरमितः स एव
ग्रासः ॥ १० ॥
भा० टी० - तिलकालके चन्द्र - विक्षेपको छाद्य और छादकमान के योगार्द्धसे वियोग करने पर जो बचता है तिस्रको छन्न कहते है ॥ १० ॥
अथ सम्पूर्ण न्यूनग्रहण (नग्रहणाभावज्ञानं चाह
यद्रामधिके तस्मन्सकलं न्यूनमन्यथा ॥ योगादधिके न स्याद्विक्षेपे ग्राससम्भवः ॥ ११ ॥
तस्मिञ्छन्नमानेऽधिके प्राद्यमानाधिके यद्यस्मात्कारणाद्राह्यमानमस्ति । अतः कार णात्सकलं सम्पूर्ण ग्रहणं भवात । अन्यथा ग्राह्यमानान्यने ग्रासे न्यूनं ग्राह्यमानान्तर्गतं ग्रहणं स्यात् । मानैक्यखण्डाद्विपेऽधिके सति ग्राससम्भवो ग्रहणं न स्यात् । अत्रोपपत्तिः । ग्राह्यमानादधिके ग्रासे सम्पूर्णग्रहणं न्यूने न्यूनं मानैक्यखण्डादधिके विक्षेपे मण्डलस्पर्शासम्भवाग्रहणाभावः ॥ ११ ॥
मा० टी० - जो ग्राह्य ग्रहबिम्ब से छन्नमान अधिक हो तो संपूर्ण ग्रहण किया जायगा अन्यथा होने से कम ग्रहण किया जायगा | योगासे विक्षेप अधिक होनेपर ग्राससम्भव नहीं होता ॥ ११ ॥
अथ स्थित्यर्धविमर्दा श्लोकाभ्यामाह - ग्राह्यग्राहक संयोग वियोगौ दलितौ पृथक् ॥ विक्षेपवर्गहीनाभ्यां तद्वर्गाभ्यामुभे पदे ॥ १२ ॥
• यच्छिष्टं तत्तमश्छन्नमुच्यत इति वा पाठ: । २ ग्राह्यमानाविक इति पाठान्तरम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com