________________
(१००) सूर्यसिद्धान्तः
[ चतुथोऽकस्य वैयर्थ्यापत्तेः । अत्रोपपत्तिः । अमान्ते सूर्यचन्द्रयोः पूर्वापरान्तराभावेन योगात्तुल्यौ सूर्यचन्द्र पूर्णिमान्ते भचक्रार्धान्तरत्वात्षड्राश्यन्तरी भागादिसमाविति ॥७॥
मा० टी०-अमावस्याके अन्तिमकालमें सूर्यकी राश्यादि चंद्रमाकी तुल्य हैं । पूर्णिमाके अंतमें चन्द्रमा भोर सूर्यमें ६ राशिका फरक (अन्तर ) है ॥ ७ ॥ अथ पर्वान्ते सूर्यचन्द्रपातानां साधनमाह
गतैष्यपर्वनाडीनां स्वफलेनोनसंयुतौ ॥
समालप्तौ भवेतां तो पातस्तात्कालिकोऽन्यथा ॥८॥ तौ सूर्यचन्द्रौ गतेष्यपर्वनाडीनां यत्कालिको सूर्यचंद्रौ तत्कालाद्गता एष्या वा दर्शान्तपूर्णिमान्तान्यतरघटिकास्तासां स्वफलेन स्वगतिसम्बन्धेन यत्फलम् । “ इष्टनाडी गुणा भुक्तिः षष्टयाभक्ता कलादिकम् ” इति मध्याधिकारोक्तेनानीतम् । तेन गौष्यक्रमेणोनयुतौ तत्र समकलौ स्तः। यद्यपि समांशाविति वक्तुं युक्तं तथाप्यन्यतिथ्यन्तापसाधितौ समकलाविति द्योतनार्थं समकलावित्युक्तम् ।। पातः स्वगत्युत्पन्नफलेनान्यथागतैष्यक्रमेण युतोनस्तात्कालिक पर्वान्तकालिकः स्यात् । अत्रोपपत्तिश्चालनलोकः । तत्र तिथ्यन्ते भागान्तरत्वेन कलादिसाम्यम् । पातस्य चक्रशोधितत्वेनेतरग्रहवैपरीत्यम् ॥ ८॥
भा टी०-मध्यरात्रिके स्पष्टराश्यादिमें पर्वातकाल मध्यरात्रिके पूर्व होनेपर तात्कालिक हीन नहीं तो योगकरने पर चन्द्रमा और सूर्यकी समकला होगी पातसंबंध तिसं कालका संस्कार उलटा करना पडता है ॥ ८ ॥ अथ प्रागुक्तानां बिम्बानां प्रयोजनमाह
छादको भास्करस्येन्दुरधःस्थो धनवद्भवेत् ॥
भूच्छायां प्राङ्मुखश्चन्द्रो विशत्यस्य भवेदसौ ॥९॥ सूर्यमण्डलस्याच्छादकश्चन्द्रः स्यात् । नन्वाकाशे द्वयोः सत्त्वेन सूर्य एव चन्द्रस्य च्छादकः कथं न स्यादित्यत आह-अधःस्थ इति । वक्ष्यमाणकक्षाध्याये सूर्यकक्षातोऽध:कक्षास्थत्वाच्चन्द्रस्यैवाच्छादकत्वम् । 'नालयश्छादको येन सूर्यश्चन्द्रस्य च्छादकः। ननु विनैकवावस्थानं छादनं न भवत्यतआह-घनवदिति । यथाऽधःस्थो मेघः सूर्यस्याच्छादको भवति तथा चन्द्रो भवतीत्यर्थः । प्राइमुखः पूर्वाभिमुखो गच्छंश्चन्द्रो भूच्छायां प्रति प्रविशति । अतः कारणादस्य चन्द्रस्यासौ भूभाच्छादिका भवेत् । तथा च सूर्यग्रहणे सूर्यचन्द्रबिम्बयोः प्रयोजनं चन्द्रग्रहणे चन्द्रभूभाबिम्बयो: प्रयोजनमिति मावः । अत्रोपपत्तिः । चन्द्रो दर्शान्ते सूर्यादधोभवतीति चन्द्रः सूर्यस्याच्छादकः । बुधशुक्रयोस्तु मण्डलाल्पत्वान्नाच्छादकत्वम् । चन्द्रस्याधीग्रहाभावात्पड्भान्तरे भूम्या प्रतिबद्धाः सूर्यकिरणाश्चन्द्रगोले न पतन्ति । अतो निष्प्रभस्य चन्द्रस्य भूभायां प्रवेश इति चन्द्रस्य भूभाच्छादिका ॥९॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com