________________
(९८) सूर्यसिद्धान्तः
[ चतुर्थोऽकलादि कत्युक्तमुपपन्नम् । यदि तु भूव्यासहीनं रविविम्बमित्यादौ मध्यबिम्वानुक्तेः प्रथममेव स्पष्टार्कबिम्बग्रहणं तदा महीव्यासस्य स्पष्टत्वाप्रसिद्धया महीव्यासस्फुटार्कश्रवणान्तरमित्येव यथाश्रुतं सम्यक् । परन्तु तदा भूव्यासोनार्कबिम्बस्य सूर्यमध्यस्पष्टगती हरगुणाववशिष्टौ वाच्यावपि भगवता स्वल्पान्तरत्वादनुक्तौ । न चानुपाते सूर्यचन्द्रयोर्भध्ययोजनकर्णीवेव गृहीतौ न स्फुटाविति मध्यस्फुटगती हरगुणावनुत्पन्नौ नोक्ताविति वाच्यम् । चन्द्रस्पष्टयोजनकर्णस्वरूपग्रहणेनोत्पन्नसूच्यां अनुक्तत्वापत्तेः । नच चन्द्रकर्णस्य मध्यत्वेन गृहीते बसन्तरमतः स्पष्टत्वेन तस्य ग्रहे सूच्युपपन्ना सूर्यकर्णस्य मध्यत्वेन गृहीतेत्यल्पान्तरमिति वाच्यम् । मध्यार्कबिम्बयोजनग्रहणेन स्फुटार्कश्रवणानुपपत्तेः । नचोभयत्रागृहीते प्रत्येकमल्पान्तरमपि बह्वन्तरमत एकत्र सूर्यगतिग्रहणमुचितमिति वाच्यम् । विनिगमनाविरहात् । पूर्व सूर्यबिम्बस्यैव सूर्यस्पष्टमध्यगतीगुणहरौ न महीव्यासस्य प्रान्त्ये तूभयारिति स्थूलसूक्ष्मविनिगमकेतुप्रान्त्ये सूर्यगतिग्रहणस्यौचित्याच । अथ महीव्यासस्य प्रथमखण्डस्य चन्द्रगतिग्रहणेन सूच्युक्तावेव द्वितीयखण्डस्य भूव्यासोनस्फुटरविबिम्बस्यार्थात्सूर्यगतिग्रहणं सूचितमिति न क्षतिरिति चेन्न । व्याख्याप्रसंगे सूर्यगतिग्रहणे मानाभावादुपपत्तरप्रसंगाच्च । अन्यथात्रापि चन्द्रगतिग्रहणापत्तेरिति । एतेन चन्द्रमध्यगत्या भूव्यासस्तदा चन्द्रस्पष्टगत्या क इति भूव्यासरूपं खण्डं स्पष्टं सूचीसंज्ञं सूर्यबिम्बप्रमाणेनापरं भूव्यासोनस्फुटरविबिम्बखण्डं तदा चन:बिम्बप्रमाणेन किमिति स्पष्टं द्वितीयं खंडं तयोः स्पष्टयोरन्तरं स्पष्टा भूमेति सर्वमुप. पन्नमिति निरस्तम् । उक्तानुपाताभ्यां तयोः स्पष्टत्वसिद्धौ मानाभावात् । स्पष्टत्वस्याप्रसंगाच । चन्द्रसूर्ययोमध्यबिम्बानुपपत्तेश्च । यत्तु भूव्यासस्य स्पष्टत्वं सूचीरूपमनुपपद्य मानं हृदि ज्ञात्वा भूव्यास एव प्रथमखण्डं भूव्यासोनस्पष्टरविबिम्बस्य मध्यकर्णानुपाताभ्यामल्पान्तरेणाप्रवर्तनान्मध्यबिम्बे गुणहरावुत्पाद्य द्वितीयखण्डमुभयोरंगुलीकरणं चन्द्रमध्यकर्णेन त्रिज्यामिताः कलास्तदाभ्यां का इत्यनुपाते प्रमाणफलयोः फलाव
नन प्रमाणस्थानापन्नपञ्चदशहरेणेति तयोरन्तरं भूभेत्युक्तं ज्ञानराजदैवज्ञैः सिद्धान्त सुंदरे । “इनावती व्यासवियोगनिघ्नं शशाङ्कविम्ब रविबिम्बभक्तम् । फलोनभूव्याससमा कुभासौ शरेन्दुभक्ता कलिकादिका स्यात् ॥” इतिग्रन्थेन । अत्र सूर्यव्यासः स्फुटार्कविम्बयोजनात्मकोनमध्ययोजनात्मकः । चन्द्राबिम्बे गुणहरौ मध्ययोजनालको न स्फुटबिम्बयोजनात्मको तट्टीकाकृचिन्तामण्यभिमतौ उपजीव्य सूर्यसिद्धान्तविरोधात् । तदुक्तं तदुपपत्त्यापि तदसिद्धेश्च । अत्र यदपि तट्टीकाकृचिंतामण्युक्तं मध्यमस्य भूभाबिम्बस्यानयनं फलाविशेषेण मध्यकर्णावेव गुणहरौ प्रकल्प्योक्तविधिना सिद्धस्य मध्यबिम्बस्य यदि मध्यगत्यन्तरेणेदं स्फुटगत्यन्तरेण किमित्यनुपातेन स्फुटत्वं मूलकृदनुक्तमपि कार्यामति तद्गत्यन्तरवशेन भूभाया अनुत्पत्त्या न सम. असम् । अन्यथा गतिवशेन साधितार्कचन्द्रबिम्बवद्गत्यन्तरकलाभ्यो विकृताभ्य एवं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com