________________
ध्यायः ४.] संस्कृतटीका-भाषाटीकासमेतः । (९७)
मध्येन्दुव्यासगुणितं मध्यार्कव्यासभाजितम् ॥
विशोध्यलब्धं सूच्या तु तमोलिप्तास्तु पूर्ववत् ॥५॥ स्पष्टाचन्द्रस्य गति व्यासेन गुणिता मध्यया चन्द्रगत्या भक्ता फलं सूचीसंज्ञ स्यात् । भूव्यासस्पष्टसूर्यबिम्बन्यासयोरन्तरं मध्येन चन्द्रबिम्बव्यासेनाशीत्याधिकचतु:शतयोजनेन गुणितं मध्येन सूर्यबिम्बव्यासेन पंचषष्टिशतयोजनेन भक्तं फलं सूच्यां प्रासिद्धायां न्यूनीकृत्य तुकाराच्छेषं तमः । भूच्छायारूपं योजनात्मकं भाभावस्तम इति च्छायायास्तमस्त्वात् । अस्य कलात्मकं मानमाह-लिप्ता इति । त्वन्तस्य पूर्वसम्बंधानुक्तेरुत्तरत्र सम्बन्धस्तुकारेण सुबोधः । अतएव पूर्ववाक्यसमाप्तिस्थं तमापदमत्र नान्वति । पूर्ववत्तिथ्याप्तामानलिप्तिका इति पूर्वोक्तेन भूच्छायायाः कलाः कार्याः । अत्रोपपत्तिः । “भूव्यासहीनं रविबिंबमिंदुकर्णाहतं भास्करकर्णभक्तम् ॥ भूविस्तृतिर्ल ब्धफलेन होना भवेत्कुमा विस्तृतिरिन्दुमार्गे ॥” इति सिद्धान्तशिरोमणौ सूक्ष्मप्रकार उक्तः । अस्योपपत्तिस्तट्टीकायां व्यक्ता । तत्र भूव्यासोनस्य रविबिम्बस्य ४९०० स्वल्पान्तरांगीकारेण स्पष्टगतिभक्तमध्यगतिगुणितचन्द्रमध्ययोजनकर्णरूपस्पष्टेन्दुयों जनको गुणः । तादृशसूर्यकर्णो हरः। तत्रैतत्खण्डस्य कलाकरणा) त्रिज्यागुणश्चन्द्रकर्णस्तादृशो हर इति चन्द्रस्पष्ठमध्यगत्योस्तुल्यगुणहरत्वेन नाशात् त्रिज्यामध्येन्दुयो. जनकर्णयोस्त्रिज्यापवर्त्तनेन हरः पंचदश पृथगुक्तः । अग्रेऽवशिष्टौ भूव्यासहीनमध्यार्कबिम्बयोजनानां रविस्पष्टगतिगुणहरौ । चन्द्रसूर्ययोर्मध्ययोजनकर्णावपि क्रमेण गुणहरौ । तत्र कर्णस्थाने लाघवात्तयोबिम्बयोजनानि गृहीतानि । यद्यपि सूर्यचन्द्रयोर्मध्ययोजनकर्णानुसारित्वाभावाद्विम्बयोजनग्रहणमनुचितम् । तथाप्यल्पान्तरांगीकारेण तददोषः । इन्दुव्यासार्कव्यासयोभूगोलाध्यायोक्तकक्षा भूकर्णगुणिता महीमण्डलभाजिता तत्कर्ण इति । तत्कक्षव्यासार्धत्वे तु सुतराम् । तत्रापि स्पष्टार्कबिम्बयोजनग्रहणे मध्यायोजनबिम्बं सूर्यस्पष्टगतिगुणितं सूर्यमध्यगतिभक्तमिति सिद्धम् । नचोक्तरीत्या सूर्यस्पष्ट मध्यगती गुणहरौ भूव्यासमध्याबिम्बयोजनान्तरस्योत्पन्नौ न केवलं विम्बस्येति भूव्यासस्तादृशो महीव्यास इत्यनेन कथं सिद्ध इति वाच्यम् । भगवता स्वल्पान्तरेण: महीव्यासस्य यथास्थितस्यैवांगीकारात् । महीव्यासस्फुटार्कश्रवणान्तरमित्युक्त्या मध्यस्थस्फुटपदस्योभयत्रान्वयेनार्कश्रवणसन्निधानेन च सूर्यबिम्बस्फुटरीत्यैव महीव्यासस्य स्फुटत्वसिद्धेश्च । अथैतत्खण्डसिद्धफलं भूव्यासाद्धीनं भूभायोजनानि । तत्र कलाकरणार्थं भूव्यासस्यापरखण्डस्य त्रिज्यागुणः स्पष्टचन्द्रगतिभक्तमध्यगतिगुणितचन्द्रमध्य. योजनकर्णरूपस्पष्टयोजनकर्णो हरः। तत्र त्रिज्यामध्ययोजनकौँ गुणहरौ गुणेनाव| हरस्थाने पञ्चदश चन्द्रस्पष्टमध्यगती गुणहराविति सूच्युक्तोपपन्ना । भूभायाः सूच्यनुकारत्वात्प्रथमखण्डं द्वितीयखण्डे हीनं भूभायोजनात्मिका सा पञ्चदशभक्ता
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com