________________
सूसिद्धान्तः
[चतुर्थोऽयोजन है । निज २ की तात्कालिक गतिसे गुणकरको मध्यगतिसे माग करनेपर स्फुट व्यास होगा ॥१॥
अथ सूर्यबिम्बं चन्द्रकक्षायां साधयंस्तयोः 'कलात्मकविम्बानयनं . सार्धश्लोकेनाह
खेः स्वभगणाभ्यस्तः शशांकभगणोद्धृतः ॥२॥ शशांककक्षागुणितो भाजितो वार्ककक्षया ॥
विष्कम्भश्चन्द्रकक्षायां तिथ्याप्तामानुलिप्तिकाः ॥३॥ सूर्यस्य विष्कभः प्रागुक्तस्पष्टो व्यासः स्वभगणैः सूर्यभगणैरुक्तैर्गुणितश्चन्द्रभगणेभक्तो वाथवा चन्द्रकक्षया वक्ष्यमाणया गुणितः सूर्यकक्षया वक्ष्यमाणया भक्तश्चन्द्रकक्षायां चन्द्राधिष्ठिताकाशगोले सूर्यव्यासः स्पष्टो भवति । ततो व्यासयोजनसंख्यापञ्चदशभक्ता मूर्यचन्द्रयोविव्यासप्रमाणकला भवन्ति । अत्रोपपत्तिः । चक्रकलाभिश्चन्द्रकक्षायोजनानि तदैककलया कानीति चन्द्रकक्षास्थितैकफलायां पञ्च" दशयोजनानि । अतश्चन्द्रस्य स्वकक्षायां स्थितत्वात्स्पष्टचन्द्रबिंवव्यासयोजनानि पञ्चदशभक्तानि चन्द्रबिंबव्यासकला भवन्ति । एवं सूर्यकक्षायामेका कला सार्धशतद्वययोजनैरिति स्पष्टसूर्यव्यासस्तैर्भक्तो व्यासकला भवन्ति । तत्र सूर्यस्य लोकैदरान्तराचन्द्राकाश इव दर्शनात्प्रत्यक्षतो विविक्तान्तरण दर्शनाभावाच्च चन्द्रकक्षाप्रमाणेन सूर्यबिंबव्यासः सूर्यकक्षयायं तदा चन्द्रकक्षया क इत्यनुपातेन गणितार्थमवस्तुभूतः साधितः । नतु वस्तुतश्चन्द्रकक्षायां सूर्यमण्डलावस्थानं सूर्यग्रहणे चन्द्रस्य च्छादकत्वानुक्तिप्रसङ्गात् । अथ सूर्यस्पष्टव्यासश्चन्द्रभगणभक्तखकक्षारूपच. न्द्रकक्षया गुणितः सूर्यभगणभक्तस्वकक्षारूपसूर्यकक्षया भक्त इति स्वकक्षारूपगुणहरयो शात्सूर्यभगणगुणितश्चन्द्रभगणभक्त इति पूर्व कक्षयोरनुक्तेरयं प्रकारो मुख्यत्वात्म. थममुक्तस्ततश्चन्द्रकक्षासिद्धसूर्यविभव्यासः पञ्चदशभक्तः सूर्यबिंबव्यासकलाः सिद्धा इत्युपपन्नमुक्तम् ॥ २ ॥ ३ ॥
भा० टी०-रविस्पष्ट व्यासको रविभगणसे गुण करके चन्द्रभगणसे भाग करनेपर अथवा चन्द्रकक्ष से गुण करके, रविकक्षासे मांग करनेपर चन्द्राधिष्ठित आकाशगोलमें सूर्यव्यास निरूपित होगा भर्यात् चंद्रमाकी कक्षामें सूर्यके व्यासका परमाण होगा । उस सूर्यव्यास और चन्द्रभ्यासमानको १५ से भाग करनेपर कलादिबिम्बमान होगा ॥ २ ॥ ३ ॥ अथोपयुक्तां भूच्छायां लोकाभ्यां साधयति
स्फुटेन्दुभुक्तिभृव्यासगुणिता मध्ययोद्धता॥
लब्धं सूचीमहीव्यासस्फुटार्कश्रवणान्तरम् ॥४॥ १ भाजितश्चार्ककक्षया इति पाठान्तरम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com