SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ (९४) सूर्यसिद्धान्तः [ तृतीयः] युरात्रवृत्ते सूर्यो यावता घटीविभागादिना नतः स नतकालः । प्राक्पश्चिमकपालयोः पापश्चिमसंज्ञः । अर्धरत्रिमारभ्य दिनार्धपर्यंतं प्राकपालम् । 'दिनार्धमारभ्याऽर्धरात्रपयेतं पश्चिमकपालम् । तत्र प्राङ्नते सूर्यस्य याम्योत्तरवृत्तात्पूर्वस्थत्वेन सूर्यात्पूर्वराशिमाग एव याम्योत्तरवृत्तलग्न इति सूर्यादूनमृणलग्नरीत्या नतघटीभिः साध्यम् । पश्चिमनते तु सूर्यस्य याम्योत्तरवृत्तात्पश्चिमस्थत्वेन सूर्याग्रिमराशेर्मध्यलग्नत्वात्सूर्यादधिकामलग्नरीत्या नतघटीभिः साध्यम् तत्रोद्वत्ताद्याम्योत्तरवृत्तस्य पञ्चदशघट्यन्तरेण नियतं सत्त्वान्निरोदयासुभिः साध्यमिति । शेषक्रियोपपत्तिस्त्वतिस्पष्टतरोत संक्षेपः ॥४८॥ मा०टी०-इस प्रकार प्राक् पश्चान्नतनाडीसे भोर लंकोदयप्राणखण्ड लेकर रविस्फुटमें कण. घन करनेसे मध्य वा दशम लग्न होगी ॥ ४८ ॥ अथ कालसाधनमाह भोग्यासूनूनकस्याथ भुक्तासनधिकस्य च ॥ संपिंड्यान्तरलपासूनेवं स्यात्कालसाधनम् ॥ १९॥ अथानन्तरं लग्नार्कयोमध्ये योऽत्यन्तमूनस्तस्य भोग्यासूनधिकस्य भुक्तासन् सम्पिण्डयैकीकृत्यांतरलग्नासून् सूर्यलग्नमध्ये ये लग्नराशयस्तेषामुदयासून् । चासमुच्चये। ए. कीकृत्यैवमुक्तप्रकारेण कालस्य सिद्धिर्भवति । अत्रोपपत्तिः । ऊनादधिकमग्र एव भवतीत्यूनतुल्यलग्नस्य भोग्यकालोऽन्तरस्थराश्युदययुतोऽधिकतुल्यलग्नस्य मुक्तकालेन युतस्तल्लग्नयोरन्तरवर्ती कालः सिद्धः स्यात् ॥ ४९ ॥ __ भान्टी०-लग्न और रवि स्पष्टके मध्य में न्यनको भोग भौर दसरका भुक्त मौर इन दोनोंके मध्यमें स्थित राशियोंकी प्राणसंख्या इकट्टी करनेसे जो प्राणसंख्या होगी तिससे काल सिद्ध होगा ।। ४९॥ अथवं लग्नार्काभ्यां साधितकालस्य दिनराज्यन्तर्गतत्वज्ञानमाह सूर्यादूने निशाशेष लग्नेऽकादधिके दिवा ॥ भचक्रायुतादानोरधिकेऽस्तमयात्परम् ॥५०॥ सूर्यात्रिराश्यन्तर्गतत्वेन न्यूने लग्ने सति पूर्वप्रकारसिद्धः कालो रात्रिशेषे भवति । सूर्यात् षड्भान्तर्गतत्वेनाधिके लग्ने पूर्वप्रकारसिद्धः कालो दिने स्यात् । षड्भायुतात्सू. दिधिके लग्ने लग्नसषड्यसूर्याभ्यामानीतः पूर्वरीत्या कालोऽस्तमयात्सूर्यास्तकालात्परमनन्तरं रात्रावित्यर्थः । एतेन रात्रीष्टकाले गते सषड्भसूर्याल्लनं साध्यमिति सूचितम् । अत्रोपपत्तिः। सूर्योदये सूर्यतुल्यलग्नत्वात्सूर्यादूनाधिके लग्ने क्रमेण रात्रिशेषे दिने च कालः स्यात् । एवमस्तकाले सषड्भसूर्यस्य लग्नत्वात बदाधिके लग्ने रात्रावेव कालः सिद्धोदित्यादि सुगमतरम् ॥ ५० ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034621
Book TitleSurya Siddhant
Original Sutra AuthorN/A
AuthorBaldevprasad Mishra
PublisherGangavishnu Krishnadas
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy