________________
ध्यायः ३] संस्कृतीका-भाषाटीकासमेतः । (९३) हीनंच युक्तं च तल्लग्नं क्षितिजे तदा" इत्यर्धस्यावृत्त्याग्रिमश्लोकादिस्थप्रापश्चादित्यस्यावृत्त्या चे प्राक्पश्चाचक्रचलने भागैरयनांशैः क्रमेण हीनं युक्तं लग्नं स्यादित्यर्थे च भगवतः कण्ठोक्तेः सिद्धत्वाच्च । अत्रोपपत्तिः । अभीष्टघटिकासुभ्यो भोग्यगतासुशोधने सूर्याक्रान्तराशिर्लग्नं नेति ज्ञातम् । ततोऽग्रिमपश्चाद्राश्युदयशोधने शुद्धो राशिर्लग्नं नेति ज्ञातम् । ततो यो राश्युदयो न शुध्यति स एव राशिरभीष्टकालेक्षितिजे लग्न इति। तस्य को भागो लग्न इति ज्ञानार्थमशुद्धराश्युदयासुभिस्त्रिंशद्भागास्तदा शेषासुभिः क इत्यनुपातेन भुक्तभोग्यक्रमेण लग्नराशे ग्यभुक्तभागादिकं सिद्धम् । तत्र भोग्यभागास्त्रिंशतः शुद्धा गता भागा लग्नराशेर्भवन्तीत्यशुद्धा राशिसंख्यातो भोग्यभागा शुद्धा लग्नं भवति । भुक्तभागाश्च भुक्तराशिमंख्यायां युक्ता लग्नं भवति । अयनांशव्यस्तसंस्कारो ग्रहपंक्तिस्थत्वार्थम् । अन्यथा कलादेशार्थ ग्रहा अयनांशसंस्कृता ग्राह्या इति सर्व निरवद्यम् ॥ ४६॥ ४७ ।। __ भा० टी०-स्वाभीष्ट धटिकाके प्राणसे भोग्य वियोग करे | फिर क्रमानुसार पीछे २ की रशिके प्राण जबतक वियोग होसके, करे शेषको ३० तीससे गुणा करके, शोध्यराशिकी प्राणसंख्यासे भाग करनेपर जो भशादि होंगे, सो गतराशिकी संस्थासे मिलानेपर (सायन) लग्न स्पष्ट होगी ॥ ४६॥ ४७॥ अथ प्रसङ्गान्मध्यलग्नानयनं लग्नानयनविशेषसूचनार्थमाह
प्राक्पश्चानतनाडीभिस्तस्मालंकोदयासुभिः॥
भानी क्षयधने कृत्वा मध्यलयं तदा भवेत् ॥ १८ ॥ दिनार्धान्तर्गतदिनगतशेषहीनं दिनार्धे क्रमेण प्राक्पश्चिमं नतं राध्यान्तर्गतरात्रिशेषगतयुतं दिनार्धं प्रापश्चिमनतं जातकपद्धतौ . प्रसिद्धम् । नतघटिकाभिस्तस्माचात्कालिकसूर्यात् । निरक्षदेशराश्युदयासुभिः पूर्वोक्तप्रकारेण सिद्धराशिभागादिकं प्रापश्चिमनतक्रमेण सूर्ये क्षयधने हीनयुते कृत्वा तदाभीष्टकाले मध्यलग्नं दशमलग्नं स्यात् । अयमभिप्रायः । प्रनते नतघट्यसुभ्यः सूर्याक्रान्तराशेनिरक्षोदयासुभिर्भुक्तासन्विशोध्य तत्पूर्वराशीनां निरक्षोदयातूंश्च विशोध्य शेषं त्रिंशद्गुणमशुद्धनिरक्षोदयभक्तं फलेन भागादिना शोधितगृहसंख्यातुल्यराशिमिश्च सूर्यो हीनो मध्यलग्नम् । एवं पश्चिमनतेन नतघट्यसुभ्यः सूर्याक्रान्तराशेनिरक्षोदयासुभि ग्यासन् विशोध्य तदग्रिम राशीनां निरक्षोदयातूंश्च विशोध्य शेषं त्रिंशद्गुणमशुद्धनिरक्षोदयभक्तं फलेन भागादिना शोधितग्रहसंख्यातुल्यराशिभिश्च सूर्यो युतो मध्यलग्नम् । एवं भुक्तभोग्यासुभ्योऽल्पकालेपीष्टासवस्त्रिंशद्वणिताः . सूर्याक्रांतराश्युदयभक्ताः फलेन भागादिना हीनयुतोऽर्को मध्यलग्नं स्यात् । अनेन प्रकारेण लग्नमपि साध्यम् । अत्रोपपत्तिः । ऊर्ध्वयाम्योत्तर. वृत्ते यः क्रान्तिवृत्तप्रदेशो लग्नस्तन्मध्यलग्नम् । तत्साधनार्थमभीष्टकाल याम्योत्तरवृत्ताद्?
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com