________________
घ्यायः ३.] संस्कृतीका-भाषाटीकासमेतः। (९१) उत्कृमणोत । एत उक्तमेषादयः कन्यान्ताः प.सङ्ख्याका उत्क्रमेण कन्यासिंहकोंद्युत्क्रमेण । एक्कारो मेषवृषादिक्रमनिरासार्थकः । तुलादयः षड्राशय इष्टाज्ञातस्वदेशोदयासुमाना भवन्ति । तथाच कन्योदयस्तुलायाः। सिंहोदयो वृश्चिकस्य । कौदयो धनुषः । मिथुनोदयो मकरस्य । वृषोदयः कुम्भस्य । मेषोदयो मीनस्यति सिद्धम् । अत्रोपपत्तिः । “कन्यान्ताद्धनुषोऽन्तस्तिथिमितनाडीभिरुदलये । लगति कुजे चौद्धस्थे पश्चात्तामिश्चराढ्याभिः ॥ तद्रहितैः खहुताशैः कन्यान्तो वा झषान्तो वा । चरखण्डैरूनाढ्यास्तेन निरक्षोदयाः स्वदेशे स्युः॥” इति भास्करोक्त्या सुगमा ॥ ४४ ॥ मा० टी०-मेषादि ६ राशिका उदयप्राण, पीछेसे तुलादिका उदयप्राण होगा ॥ ४४ ॥ अथाभीष्टकाले ऋणधनलग्नसाधनार्थ गतभोग्यासूनाह
गतभोग्यासवः कार्या भास्करादिष्टकालिकात् ॥
स्वोदयासुहता भुक्तभोग्या भक्ताः खवाह्निभिः॥४५॥ इष्टकाले चालनेन सञ्जातात्सूर्याद्गतभोग्यासवः । गतासवो भोग्यासवश्च साध्याः । कथं साध्या इत्यत आह-स्वोदयासुहता इति । भुक्तभोग्याः सूर्याक्रान्तराशेर्यै भुक्तभागाः । सूर्यस्य भागाद्यवयवात्मका एते त्रिंशतः शुद्धा भोग्यभागाः। सूर्याक्रान्तराशेः स्वदेशोदयासुभिर्गुणितास्त्रिंशता भक्ता गतासवो भोग्यासवः क्रमेण भवन्ति । अत्रोपपत्तिः । यस्मिन् काले लग्नं साध्यं तस्मिन्काले सूर्यः साध्योऽन्यथा तात्कालिकलनासिद्धिर्न स्यात् । अथैतदर्थ सूर्याक्रान्तराशेर्भुक्तासवो भोग्यासवश्च साध्याः सूर्योदयातत्कालपर्यन्तं पूर्वाग्रिमकालयोस्तद्राशेर्लग्नत्वात् । अनन्तरं च राश्युदयासुगणनया लग्नज्ञानस्य सुशकत्वाच्च । अतस्त्रिंशद्भागैरुदयासवस्तदा भुक्तभोग्यभागैः कइति भुक्तभोग्यकालासवः अत्रोदयकालासूनां सम्पातावधि राशिग्रहणेनोत्पन्नत्वात्सूर्योऽयनांशसंस्कृतो ग्राह्यः। अन्यथा सूर्याक्रान्तराशेरुक्तादयसम्बन्धाभावादसंगततापत्तेः । अत एव “युक्तायनांशादपमः प्रसाध्यः कालौ च खेटात् फल भुक्तभोग्यौ " इति भास्कराचार्योक्तं संगच्छते । ननूक्तरीत्यौदयिकाौदेव भुक्तभोग्यासवः साध्याः सूर्योदयातत्कालावधि तद्राशेर्लग्नत्वात् । नहीष्टकाले तद्राशिर्लग्नं येन तद्गतभोग्यासवः साधवः । नापि तात्कालिकार्कात्सूर्योदयावधिकास्ते तात्कालिकार्कस्य सूर्योदयकालिकत्वाभावात् । तत्कथं भगवता सर्वज्ञेन भास्करादिष्टकालिकादित्युक्तामति चेत् । उच्यते । उदयानां नाक्षत्रत्वान्नक्षत्रघट्यो ग्राह्यास्तास्त्वसिद्धाः । सर्वत्र साधितघटीनां सावन त्वात् । तासां नाक्षत्रीकरणमावश्यकमन्यथा तद्गणनानुपपत्तेः । तदर्थ ग्रहोदयप्राणहता इत्यायुक्त्या षष्टिसावनघटीषु गतिकलोत्पन्नासवोऽधिका. नाक्षत्रत्वार्थ तदेष्टसावनघटीषु कियदधिकमित्यनुपातेनागतफलयुक्ताः सावनाः कार्याः तत्रागतफलस्य क्षेत्रा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com