________________
चरणन्यूह परिशिष्टभाष्ये ।
अथशब्दो मङ्गले प्रस्तावे च । अथशब्दः पूर्वमेव मङ्गलार्थ इत्यर्थः । अतो हेत्वर्थः । वेदरांशेः पारायणचतुर्विभागाच्चरण उच्यते । तस्य व्यूहः समुदायः । चतुर्वेदानां समुदायं व्याख्यास्यामइत्यर्थः । कथमेकवेदः । तदुक्तमारण्यके "सर्वे वेदाः सर्वे घोषा एकैव व्याहृतिः प्राणा एव प्राण ऋच एवं विद्यादिति "तस्य चतुर्विभागाः कृताः । तथा चोक्तं द्वादशस्कन्धे षडाध्याये भागवते । तेनासौ चतुरो वेदांश्चतुर्भिर्वदनैः प्रभुः । सव्याहृतिकात्मोङ्कारांश्चातुर्होत्र विवक्षया ॥१॥ पुत्रानध्यापयत्तांस्तु ब्रह्मर्षीन्ब्रह्मकोविदान् ॥ ते तु धर्मोपदेष्टारः खपुत्रेभ्यः समादिशन् ॥ २ ॥ ते परम्परया प्राप्तास्तत्तच्छिष्यैर्धृतव्रतैः । चतुर्युगेष्वथ व्यस्ता द्वापरादौ महर्षिभिः ॥ ३ ॥ चीणायुषः चौणसत्वान्दुर्मेधान्वौक्ष्य कालतः । वेदान्त्रह्मर्षयो व्यस्य न्हदिस्थाच्युतनोदिताः ॥ ४ ॥ अस्मिन्नप्यन्तरे ब्रह्मखर्गत्वाल्लोकभावनः । ब्रह्मेशा लोकपालैर्वाचितो घ र्मगुप्तये ॥ ५ ॥ पराशरात्सत्यवत्या मंशांश कलया विभुः ॥ अवतोर्णो महाभाग वेदं चक्रे चतुर्विधम् ॥६॥ ऋगथर्वयजुःसाम्नां राशोकनृत्य वर्गश: चतस्रः ॥ संहिताश्च के सूत्रे मणिगणा इव ॥७॥ तासां स चतुरः शिष्यानुपाहूय महामतिः ॥ एकैकसंसितां ब्रह्मनेकैकस्मै ददौ विभुः ॥ ८ ॥ पैलाय संहितामाद्यां बहृचाख्यामुवाच ह ।। वैशम्पायनसज्ञाय निगदाख्यां यजुर्गणम् ॥६॥ साम्नां जैमिनये प्राह तथा च्छन्दो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com