________________
संस्कारपद्धतीमोदनं ददाति । ततो ब्राह्मणभोजनं भूयसीदक्षिणादानं च कृत्वा विप्राशिषो गृहीत्वा विष्णुं संस्मरेत् ।
इति चूडाकर्मप्रयोगः।
अथोपनयनम् । तचाऽऽचार्यकर्तकमाणवकसंबन्धिस्वसमीपनयनम् । तदेव प्रधानम् । तत्फलं च द्विजत्वसिद्धया वेदाध्ययनाधिकारः।
अथ प्रयोगः-उपनयनं चिकीर्षुराचार्यों यथोक्तविधिना कार्पास. निर्मितमेकं यज्ञोपवीतं प्रादेशमात्रं समचतुरश्रमश्मानमहतं वस्त्रद्वयं क्षोम कार्पासं वा कौपीनं तद्वन्धनार्थ क्षोमं सूत्रमुत्तरीयार्थ काषायं वस्त्रमजिनं वा त्रिवृतां मौजी मेखला प्रवरसंख्यग्रन्थियुतां यथोक्तलक्षणं दण्डमप्र. च्छिन्नायाः प्रादेशमात्रीः सप्त पालाशीः समिधोऽनियतसंख्यैर्दभैनिर्मित. मासनार्थ कूर्च कांस्यव्यतिरिक्तं भिक्षापात्रं गां चोपकल्पयेत् । होमादिसामग्रीं च।
कृतनित्यक्रिय आचार्य आचम्य प्राणानायम्य देशकालौ संकीयं ममोपनेतृत्वाधिकारसिद्धयर्थ कृच्छ्त्रयात्मकं प्रायश्चित्तममुकमत्याम्नाये. नाहमाचरिष्य इति संकल्प्य तच्चरेत् । , एवं देशकालसंकीर्तनपूर्वकमुपनेयत्वाधिकारसिद्धयर्थं कृच्छ्त्रयात्मकं प्रायश्चित्तं गोदानप्रत्याम्नायेनाहमाचरिष्य इति बटुना संकल्पं कारयित्वा वत्कारयेत् । __तत आचार्यों मम गायत्र्युपदेशाधिकारार्थ द्वादशसहस्रं द्वादशाधिकसहस्र वा गायत्रीजपमहं करिष्य इति संकल्प्य-ॐ अग्न आयूष १० ध्यर्चयः । इत्यग्निपवित्रसंज्ञकान्षण्मन्त्रान्सकृन्जपित्वा गायच्या विश्वामित्र ऋषिः सविता देवता गायत्री छन्दः, जपे वि० । ॐ तत्सवि० दयादिति सकृज्जपित्वा ऋष्यादिस्मरणपूर्वकं संकल्पितपक्षानुसारेण यथाकालं गायत्रीजपं कुर्यात् । गायत्रीमन्त्रे श्रुतावेव ऋष्यायुत्कीर्तना. दत्राऽऽवश्यकम् । तेनाप्यन्यत्रानावश्यकत्वं सूचितम् ।
तत आचार्यों ज्योतिर्विदादिभ्योऽवधारितादुपनयनदिनात्पूर्वेधुस्तदिने वा सर्व नित्यकर्म विधाय माङ्गलिकं स्नानं माङ्गलिकवेषं च कृत्वा सोत्तरच्छदे रङ्गवल्लिकायुक्त पीठे प्राङ्मुख उपविश्यं स्वदक्षिणतः कृत.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com