SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ चूडाकर्मप्रयोगः । चारिणं बोपवेश्याऽऽसादिता अत्युष्णा अप आसादितासु शीतासु मिश्रयित्वा ता आदाय- -ॐ आप उन्दन्तु वर्चस इति ताभिर्दक्षिणं गोदानमाऔं करोति । गवि पृथिव्यां दीयते स्वापार्थमङ्ग गोदानम् । तानि मनुष्ये चत्वारि | ॐ औषधे त्रयवैनम् । आसादितेष्वेकं कुशमूर्ध्वानं तत्र निदधाति । ॐ स्वधिते मैन हिप्सीः । तत्राऽऽसादितं क्षुरं निदधाति । ॐ देवभूतानि मवपे । इत्योषधिना सह दक्षिणप्रदेशस्थानकेशान्वपति । एवमवशिष्टगोदानत्रयेऽपि । तत्र वपनमन्त्रेषु विशेष: - C ॐ येनावपत्सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् । तेन ब्रह्माणो वपत्तेदमस्योर्जे म५य्या वर्चसा सजाय ॥ इति पश्चिमप्रदेशस्थ केशवपने मन्त्रः । ॐ येन पूषा बृहस्पतेरग्नेरिन्द्रस्य चाऽऽयुपेऽवपत् । तेन तेऽहं वपाम्यमुकशर्मन् । इत्युत्तरप्रदेशस्थ केशवपने । ॐ यथा ज्योक्च सुमना असत् । ज्योक्च सूर्य दृशे ॥ इति पूर्वप्रदेशस्थ केशवपने । कपनानन्तरं नापितेन यथाकुलधर्मं यथाप्रवरं वा चूडाः कारयेयुर्वपनकर्तारः । नापितस्तदनुसारेण चूडाः कुर्यात् । एका वेन्मध्ये । दे चेन्मध्ये पुरस्ताच्च । तिस्रवेन्मध्ये पश्चात्पुरस्ताच्च । पञ्च चेस्प्रतिदिशं मध्ये च । भृगवः केचनः सशिखा: । केचन मुण्डा एव । ततः कुमारस्य बन्धुजनस्तस्मिन्छ कृत्पिण्डे तान्केशानन्तर्भूतान्कृत्वा ॐ यत्र पूषा बृहस्पतिः सविता सोमोऽग्निः । तेभ्यो निघानं बहुधा व्यैच्छन्तरा द्यावापृथिवी अपः सुकः ॥ इति गोष्ठ उदुम्बरे दर्भस्वम्बे वाडवढं खात्वा तस्मिन्सकैशं शकत्पिदं प्रक्षिप्य मृदा प्रच्छादयति । वतः कृतशुद्धस्नानः कुमार आचार्यादीन्मणमेत् । तत आचार्यः पुण्याहवाचकेभ्यो ब्राह्मणेभ्यो दक्षिणां दधात् । नापिताय सर्पिष्यचुर Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy