SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ अन्नप्राशनप्रयोगः । धारिण्य शेषभूतानां मातस्त्वमधिका हासि । अजरा चाप्रमेया च सर्वभूतनमस्कृता ।। त्वमेवाशेषजगतां प्रतिष्ठा वा तथा ह्यसि । कुमारं पाहि मातरत्वं ब्रह्मा तदनुमन्यताम् ॥ इत्येतैर्मन्त्रैर्भूमावुपवेश्य ब्राह्मणान्संपूज्य बालं पुत्रवतीभिः सुवासिनीभिराज्याऽऽशिषो वाचयित्वा ब्राह्मणान्सभाज्य कर्मसाद्गुण्याय विष्णुं संस्मरेत् । इति भूम्युपवेशनम् । ६९ अथान्नप्राशनप्रयोगः ॥ तच्च जन्मतः षष्ठे मासेऽष्टमाद्यन्यतमे समे मासे वा शुक्लपक्षे ज्योतिर्विदादिष्टे मुहूर्ते कार्यम् । कुमार्यास्तु सप्तमाद्यन्यतमे विषमे मासि कार्यम् । कर्ता प्राङ्मुख उपविश्य स्वस्य दक्षिणतो भार्यां संस्कार्य चोपवे - श्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य ममास्य शिशोर्मातृगममाशनैनो निबईणबीजगर्भ समुद्भवै नौनि बर्हणान्नाद्य ब्रह्मवर्चस तेजइन्द्रियायुरभिवृद्धिद्वारा श्रीपरमेश्वरभीत्यर्थमन्नप्राशन। ख्यं कर्म करिष्य इति संकल्प्य गणपतिपूजन पुण्याहवाचनमातृकापूजननान्दीश्राद्धान्युक्तरीत्या कुर्यात् । तत्र सत्रिता प्रीयतामिति विशेषः । ततः शुचिनामाऽयमग्निरिति ध्यायन्नौपासनार्थि प्रज्वाल्य ध्यात्वा समित्रयमादाय श्रद्ध एहीत्यादि माणायामान्तं कृत्वाऽन्नप्राशन होमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तमुक्त्वाऽङ्गहोमे वरुणं द्विरित्यादि । पात्रासादने दधि मधु घृतं पायसमन्नमाज्यासादनोत्तरं सादयेत् । ततो . ब्रह्मवरणादि त्रिवृदन्नहोमीय पुण्याहवाचनान्तं कुर्यात् । अस्मिन्पुण्याहवाचने प्रजापतिः प्रीयतामिति विशेषः । नात्र प्रधानहोमः । जयादयः कृताकृताः । ततः स्वदक्षिणतो मातुरुत्सङ्गस्य प्राङ्मुखं शिशुं सुवर्णदय रौप्य दर्ज्या वा मङ्गलघोषपूर्वकमासादितं दधिमधुघृत मिश्रमिति त्रिवृत्प्रतिमन्त्रं प्राशयति । ॐ भूस्त्वयिं दधामाति प्रथमम् । ॐ भुत्रस्त्वयि दघामीति द्वितीयम् । ॐ सुवस्त्वयि दधामीति तृतीयम् । ॐ अपां त्वौषधी I Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy