________________
आयुर्वर्धापनप्रयोगः। ॐ त्र्यम्बकं य० मृतात् । मृत्युंजयाय० मृत्युंजयमाचाहयामीति मृत्युंजयमावाह्य ॐ या दिव्या आप:० याश्च कूप्या या. भवन्तु । पूर्वाषाढा नक्षत्रदेवताभ्योऽद्भयो नमः पूर्वाषाढानक्षत्रदेवता अप आ० । अमुक कुलदेवताय. अमुककुलदेवतामावा० । जन्मनक्षत्राय नमो जन्मनक्षत्रमावा० । वित्तपाय वित्तपमा० । देवाय प्रजापतये. देवं प्रजापतिमा० । भानवे० भानुमा० 1 विघ्नेशाय० विघ्नेशमा० । माके. ण्डेयाय मुनये० मार्कण्डेयं मुनिमा० । अश्वत्थाम्ने० अश्वत्थामानमा० । बलये० बलिमा० । व्यासाय० व्यासमा० । हनूमते० हनूमन्तमा० । बिभीषणाय विभीषणमा० 1 कृपाय० कृपमा० । परशुरामाय० परशुराममा० । प्रह्लादाय० प्रह्लादमा० । षष्ठयै नमः षष्ठीमा० । इति प्रतिमास्वक्षतपुञ्जेषु वाऽऽवाह्य षोडशोपचारैः संपूज्य नमस्कुर्यात् । षष्ठयै दधिभक्तनैवेद्यम् ।
ततस्तदुत्तरतः कलशमभिषेकार्थ स्थापयेन्मही द्यौः पृथिवीत्यादि । तत्र वरुणपाबाह्य पूजयेत् ।।
अस्मिञ्जन्मदिने भक्त्या पूजितोऽसि मया गुरो। मपन्नः शरणं त्वाऽहं दीर्घमायुः प्रयच्छ मे ॥ इति गुरोः प्रार्थन् । अस्मिञ्जन्मदिने भत्तत्या भो देवाः पूजिता मया । शरणं वः प्रपन्नोऽस्मि दीर्घमायुः प्रयच्छत ॥ इति देवानां प्रार्थना । अस्मिञ्जन्मदिने भक्त्या पूजितोऽसि मयाऽनल । अपनः शरणं त्वाऽहं दीर्घमायुः प्रयच्छ मे ॥ इत्यचेः प्रार्थना । मृत्युंजय महादेव पूजितोऽस्मिन्दिने मया । .. शरणं त्वां प्रपन्नोऽस्मि दीर्घमायुः प्रयच्छ मे ॥ इति मृत्युंजयस्त्र । अस्मिन्दिने पूजिताऽसि जन्मनक्षत्रदेवते ।। प्रपन्नः शरणं त्वाऽहं दीर्घमायुः प्रयच्छ मे ।। इति जन्मन दे। कुलरक्षणकर्तत्वाद्विश्रुता कुलदेवता। अस्मिन्दिने पूजिता त्वं दीर्घायुष्यं प्रयच्छ मे ॥ इति कुलदेवतायाः। भो जन्मप्रद नक्षत्र अस्मिञ्जन्मदिने मया । । भक्त्या संपूजितमसि दीर्घमायुः प्रयच्छ मे ॥इति जन्मनक्षत्रस्य।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com