SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ संस्कारपद्धतौएवं पात्राण्यासाद्य ब्रह्मवरणादिचरुकल्पेन चरुं श्रपयित्वा सुवदव्य? संमृज्याऽऽज्यसंस्कारं कुर्यात् । तत्र पर्यग्निकरणकाले चरुदूर्वामधुदधिभिः सहाऽऽज्यस्य पर्यनिकरणमिति विशेषः । ततः परिधीन्परिधाय शृतं चरुमभिघार्योदगुद्वास्य बर्हिषि निधाय मधुना स्थाल्याज्येन दध्ना च दूर्वा अभ्यज्य चरोरुत्तरतो बर्हिषि निधाय परिषेकादिव्याहृतिहोमान्तं कृत्वा प्रधानहोमं कुर्यात् । ॐ त्र्यम्बकं यजा० मृतात्स्वाहेति मध्वाज्यदध्यक्तदूर्वाहुतीरष्टोत्तरशतं जुहुयात् । ततः स्रवेण दामुपस्तीर्य चरोमध्यादगुष्ठपर्वमात्रमवदाय तथैव पूर्वार्धादवदाय स्रवेणाभिघार्य स्थालीगतं हविः प्रत्यनक्ति । ततो बालकजन्मनक्षत्रदेवतायाः पुरोनुवाक्यां याज्यो चोक्त्वाऽन्ते स्वाहाकारमुक्त्वा जुहुयात् । तत्राग्निनः पातु कृत्तिका इत्यारभ्य नक्षत्रदेवतानां क्रमेण याज्यानुवाक्याः । तत्राग्निर्नः पात्विति वाक्यचतुष्टयं पुरोनुवाक्या । यस्य भान्तीति तदग्रिमं वाक्य चतुष्टयं याज्या । प्रजापते रोहिणीति वाक्यचतुष्टयं पुरोनुवाक्या । रोहिणी देव्युदगादिति वाक्य. चतुष्टयं याज्या । एवमग्रेऽपि क्रमेण पुरोनुवाक्या याज्याश्च द्रष्टव्याः। तत्र यद्भालकजन्मनक्षत्रं तदीयपुगेनुवाक्यायाज्यासंज्ञकमन्त्राभ्यां होमः कार्यः । अग्निः प्रजापतिः सोमो रुद्रोऽदितिवृहस्पतिः सर्पाः पितरोऽर्यमा भगः सविता त्वष्टा वायुरिन्द्रामी मित्र इन्द्रो नितिरापो विश्वे देवा विष्णुर्वसवो वरुणोऽजैकपादहिर्बुध्न्यः पूषाऽश्विनौ यम इति क्रमेण सप्तविंशतिर्देवताः । एतन्मध्ये या जन्मनक्षत्रदेवता तन्मन्त्राभ्यां होमं कृत्वा वारुणीहोमादिराष्ट्रभृदुपहोमान्तोपहोमाजुहुयात् । उपहोमेषु यज्जन्मनक्षत्रं तत्संबन्ध्युपहोमाजुहुयात् । आमघामूलनक्षत्राणां क्रमेण रुद्रपितृनिऋतिदेवत्यत्वात्तद्धोमान्त उदकस्पर्शः कार्यः । एवमार्द्रामघानक्षत्रेष्टयुपहोमान्तर्गतयो रुद्राय स्वाहा पितृभ्यः स्वाहेति द्वयोरुपहोमयोरप्युदकर पर्शः । ततः स्वजन्मनक्षत्रेष्टिपठितोपहोमान्हुत्वाऽङ्गन्होमादिहुतशेषेण स्विष्टकृद्धोमः । दूर्वाणां नैव स्विष्टकृन्न त्रिवृदन्नहोमः । ततो गुरुं देवेभ्यो नम इति देवांश्च संपूज्याग्निं विप्रांश्च पूजयेत् । ततः प्रतिमास्वक्षतपुञ्जेषु वा क्रोण वक्ष्यमाणदेवता आवाहयेत् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy